भारतकोश
आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

Ayurveda Prakasha of Madhava Upadhyaya with Commentary

माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished232 पृष्ठ

पृष्ठ 69, कुल 232 में से

संदर्भ में पढ़ें
पृष्ठ 69

५० आयुर्वेदीयग्रन्थमाला । अरुणो भस्मसूताख्यः सर्वकार्यार्थसाधकः ॥ ३८५ ॥ प्रवालकोमलच्छायो नृणामत्यन्तवल्लभः । भक्षयेद्रक्तिकाः पञ्च मरिचेन समं रसम् ॥ ३८६ ॥ क्षुद्बोधकारकः प्रायः सद्यः कामाग्निदीपनः । ज्वरादिकानयं दोषान् संयोगान्नाशयत्यपि ॥ ३८७ ॥ येषु येषु प्रयोक्तव्यो रसो रोगेषु सत्वरम् । तांश्च तान्नाशयेच्छ्रेष्ठः समर्थो रसपार्थिवः ॥ ३८८ ॥ इति सिन्दूररसः ॥ अथ रसस्य मारणविधिः । धूमसारं रसं तूरीं गन्धकं नवसादरम् । यामैकं मर्दयेदम्लैर्भागं कृत्वा समं समम् ॥ ३८९ ॥ काचकूप्यां विनिक्षिप्य तां च मृद्वस्त्रमुद्रया । विलिप्य परितो वक्रे मुद्रां दत्त्वा विशोषयेत् ॥ ३९० ॥ अधःसच्छिद्रपिठरी

आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक) · पृष्ठ 69, कुल 232 में से · BharatKosha