आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 82, कुल 232 में से
संदर्भ में पढ़ें१. ] आयुर्वेदप्रकाशः । ६३ बलिः सूतो निम्बूरसविमृदितो भस्मसिकता- द्वये यन्त्रे कृत्वा समरविकणाटङ्कणरजः । त्रिघस्रं लुङ्गाम्भोलवकदलितः क्षौद्रहविषाऽ- वलीढो माषैकं दरयति समस्तं गदगणम् ॥ ५१२ ॥ जरां वर्षेकेन क्षपयति च पुष्टिं वितनुते तनौ तेजस्कारं रमयति वधूनामपि शतम् । रसः श्रीमान्मृत्युञ्जय इति गिरीशेन कथितः प्रभावं को वाऽन्यः कथयितुमपारं प्रभवति ॥ ५१३ ॥ लुङ्गाम्भोलवकदलित इति मातुलुङ्गद्रवं कणशो दत्त्वा त्रिदिनं मर्दयेदित्यर्थः । इति मृत्युञ्जयो रसः ॥ शुद्धं रसं समविषं प्रहरं विमर्द्य तद्गोलकं कनकचारुफले विधाय । दोलागतं पच दिनं विषमुष्टितोये प्रक्षाल्य तत्पुनरपीह तथा द्विवारम् ॥ ५१४ ॥ तत्सूतके गिरिशलोचनयुग्मगन्धं युक्त्याऽवजार्य कुरु भस्मसमं च तस्य । वैक्रान्तभस्म जयपालनवांशकार्धं सर्वैर्विषं द्विगुणीतं मृदितं च खल्वे ॥ ५१५ ॥ घस्रत्रयं कनकभृङ्गरसेन गाढ- मावेश्य भाजनतले विषधूपभाजि । भृङ्गद्रवेण शिथिलं लघुकाचकूप्या- मापूंर्य रुद्धवसनं सिकताख्ययन्त्रे ॥ ५१६ ॥ तां वासरार्धमुपदीप्य निसर्गशीतां दृष्ट्वा विचूर्ण्य गदशालिषु शालिमात्रम् । आनन्दसूतमखिलामयकुम्भिसिंहं गद्याणकार्धसितया सह देहि पश्चात् ॥ ५१७ ॥