भारतकोश
बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

Baudhayana Dharmasutra Hindi

महर्षि बौधायन द्वारा

स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)

DevanagariHindipublished486 पृष्ठ

पृष्ठ 118, कुल 486 में से

संदर्भ में पढ़ें
पृष्ठ 118
६६बौधायन-धर्मसूत्रम्[ शुद्धिप्रकरणम्

अनु०—इस संबन्ध में भी धर्मशास्त्रकार निम्नलिखित उद्धरण देते हैं—अश्रद्धा सबसे बड़ा पाप है, श्रद्धा परम तप है। इस कारण श्रद्धा के बिना ही अर्पित किये गये हवि को देवता ग्रहण नहीं करते ॥ ६ ॥

श्रद्धा आदरः कौतूहलं आस्तिक्यम् । यस्मादश्रद्धैवम्भूता तस्मादश्रद्धया न दातव्यमिति शेषः । आह च कृष्णो धनञ्जयाय—

अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् ।
असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ॥ ६ ॥

श्रद्धारहितः पुनः—

इष्ट्वा दत्त्वाऽपि वा मूर्खः स्वर्गं न हि स गच्छति ॥ ७ ॥

अनु०—( श्रद्धाहीन ) मूर्ख व्यक्ति यज्ञ करके या दान देकर भी स्वर्ग को नहीं जाता ॥ ७ ॥

स्पष्टमेतत् ॥ ७ ॥

मूर्ख इत्युक्तम्, कोऽसावित्यत आह—

शङ्का(१)पिहितचारित्रो यस्स्वाभिप्रायमाश्रितः ।
शास्त्रातिगः स्मृतो मूर्खो धर्मतन्त्रोपरोधनादिति ॥ ८ ॥

अनु०—जिस व्यक्ति का आचरण शङ्का (विवेकहीनता) द्वारा बाधित होता है, जो अपनी इच्छा के अनुसार आचरण करता है, जो शास्त्रों में उक्त नियमों का अतिक्रमण करता है—वह धर्मनियमों के अनुष्ठान का विरोध करने के कारण मूर्ख कहा गया है ॥ ८ ॥

शङ्का कृत्याकृत्यविवेकशून्यता, श्रेयस्संशयात् । तया पिहितं चारित्रमनुष्ठानं यस्य स यथोक्तः । ततश्च शास्त्रतो निश्चित्य हेयोपादेयौ (२)चाऽवेक्ष्य विवेकाभावे स्वाभिप्रायमाश्रितः स्वेच्छाचारी भवतीत्यर्थः । एतस्मादेव शास्त्रातिगश्च भवति शास्त्रार्थमतीत्य गच्छति । तथाऽयुक्तम्, यतो भगवद्गीतासूक्तम्—
तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ ॥ इति ।
एवंविधो यः पुरुषः स मूर्खस्स्मृतः । को हेतुः ? धर्मतन्त्रोपरोधनादिति । धर्मस्य तन्त्रमनुष्ठानं तस्योपरोधो भवति ॥ ८ ॥

श्रद्धा यथा द्रव्याणां शुद्धिहेतुः, एवं प्रक्षालनमपीत्येतद्दर्शयन्नाह—

शाकपुष्पफलमूलोषधीनां तु प्रक्षालनम् ॥ ९ ॥


१. विहृतेति. क. पु.
२. अनवेक्ष्य. इति. ग. पु.