भारतकोश
बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

Baudhayana Dharmasutra Hindi

महर्षि बौधायन द्वारा

स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)

DevanagariHindipublished486 पृष्ठ

पृष्ठ 145, कुल 486 में से

संदर्भ में पढ़ें
पृष्ठ 145

एकादशः खण्डः ] प्रथमप्रश्ने पञ्चमोऽध्यायः ९१

ऊर्ध्वं नाभेः करो मुक्त्वा स्पृशत्यङ्गं खरो यदि ।
स्नानं तत्र विधातव्यं शेषे प्रक्षाल्य शुध्यति ॥
कुत्रचिदिदं प्रायश्चित्तं भवति ? स्नानाशक्तौ वा पादौ प्रक्षाल्य पुनराचामेदिति सम्बन्धः ॥ ३८ ॥

शुना दष्टस्य कथमित्यत आह—
अथाऽप्युदाहरन्ति—
शुना दष्टस्तु यो विप्रो नदीं गत्वा समुद्रगाम् ।
प्राणायामशतं कृत्वा घृतं प्राश्य विशुध्यति ॥
सुवर्णरजताभ्यां वा गवां शृङ्गोदकेन वा ।
नवैश्च कलशैस्स्नात्वा सद्य एव शुचिर्भवेत् ॥ ३९ ॥

इस विषय में निम्न लिखित पद्य भी उद्धृत किये जाते हैं—
जिस ब्राह्मण को कुत्ते ने काट लिया हो वह समुद्र में मिल जाने वाली नदी में स्नान कर, सौ बार प्राणायाम कर घी का भक्षण करने पर शुद्ध होता है । अथवा सोने या चाँदी के बर्तनों में लाये गये या गाय के सींग में लाये गये जल से अथवा मिट्टी के नये घड़ों में लाये गये जल से स्नान करने पर तत्काल शुद्ध हो जाता है ।

श्वाधिकारेपुनः श्वग्रहणं श्वापदादीनां प्रदर्शनार्थम् । नदीं गत्वा स्नात्वा चेति शेषः । सुवर्णरजतेति । इदमपि शुना दष्टस्यैव । कनकराजतनिर्मितेन पात्रेण नवैश्च मृन्मयैर्वा कलशैः स्नानमेकः कल्पः । गवां शृङ्गोदकेन नवैश्च कलशैरित्यपरः ॥ ३९ ॥
इति बौधायनीये धर्मसूत्रे प्रथमप्रश्ने एकादशः खण्डः ॥ ११ ॥


पञ्चमाध्याये द्वादशः खण्डः

एवं तावत्प्राणिविशेषैर्दष्टस्य प्रायश्चित्तमुक्तम् । अथेदानों प्राणिविशेषे¹ भक्षणं प्रतिषेधति—
अभक्ष्याः पशवो ग्राम्याः ॥ १ ॥


¹ १. भक्षणप्रतिषेधमाह ग. पु.