भारतकोश
बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

Baudhayana Dharmasutra Hindi

महर्षि बौधायन द्वारा

स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)

DevanagariHindipublished486 पृष्ठ

पृष्ठ 151, कुल 486 में से

संदर्भ में पढ़ें
पृष्ठ 151

त्रयोदशः खण्डः ] प्रथमप्रश्ने षष्ठोऽध्यायः ३९

श्रावण्यां पौर्णमास्यामाषाढ्यां वोपाकृत्य तैष्यां माघ्यां वोत्सृजे- युरुत्सृजेयुः ॥ १७ ॥

**अनु०—**श्रावण या आषाढ मास की पौर्णमासी को वेदाध्ययन आरम्भ करने की उपाकर्म क्रिया कर तिष्य नक्षत्र से युक्त पौर्णमासी को या माघ की पौर्णमासी को वेदाध्ययन का उत्सर्ग करे ॥ १७ ॥

इति बौधायनीये धर्मसूत्रे प्रथमप्रश्ने दशमः खण्डः ॥ १२ ॥

श्रवणेन नक्षत्रेण श्रविष्ठया वा युक्ता पौर्णमासी श्रावणी । श्रावणशब्दोऽत्र नक्षत्रद्वयप्रदर्शनार्थः । तथाऽऽह —

चित्रादितारकाद्वन्द्वैः पूर्णपर्वेन्दुसङ्गतः । मासाश्चैत्रादिका ज्ञेयाः त्रिद्विषष्ठान्त्यसप्तमैः ॥

इति । एवमेव द्वादश पौर्णमास्यो द्रष्टव्याः । उपाकर्मोत्सर्जनं च गृह्य ( ३. १. ) एवोक्तम् ॥ १७ ॥

इति बौधायनीयधर्मसूत्रविवरणे गोविन्दस्वामिकृते पञ्चमोऽध्यायः


अथ षष्ठोऽध्यायः

एवं तावत्पुरुषार्थतया शौचाधिष्ठानमुक्तम् , अथेदानीं क्रत्वर्थतयाऽऽह—

शुचिमध्वरं देवा जुषन्ते ॥ १ ॥

**अनु०—**देवता पवित्र यज्ञ को ही ग्रहण करते हैं ॥ १ ॥

अध्वर इति यज्ञनाम । ध्वरः हिंसाकर्म तत्प्रतिषेधोऽध्वरः । जुषन्ते सेवन्ते । देवग्रहणं पितॄणामप्युपलक्षणार्थम् ॥ १ ॥

किमित्येवम् ?

शुचिकामा हि देवाश्शुचयश्च ॥ २ ॥

**अनु० —**क्योंकि देवता पवित्रता चाहते हैं और स्वयं पवित्र होते हैं ॥ २ ॥

हिशब्दो हेतौ शुचिकामत्वात् शुचित्वाच्चेत्यर्थः ॥ २ ॥

¹प्रपञ्चोऽयं भूयः तत्संग्रहार्थः—

²शुची वो हव्या मरुतश्शुचीनां शुचिं हिनोम्यध्वरं शुचिभ्यः । ऋतेन सत्यममृतसाप आयंश्शुचिजन्मानश्शुचयः पावका इति ॥ ३ ॥


१. पंक्तिरियं ग. पुस्तके नास्ति ।
२. ऋ. सं. ५. ४. २४. २.