भारतकोश
बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

Baudhayana Dharmasutra Hindi

महर्षि बौधायन द्वारा

स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)

DevanagariHindipublished486 पृष्ठ

पृष्ठ 204, कुल 486 में से

संदर्भ में पढ़ें
पृष्ठ 204

१५२ | बौधायन-धर्मसूत्रम् | [ अनध्यायाः

हन्ति पञ्चदशी विद्यां तस्मात्पर्वाणि वर्जयेत् ॥२४ ॥

अथाऽतः प्रायश्चित्तानि ।

'यथायुक्तो विवाहः । अष्टौ विवाहाः । क्षत्रियवध गोसहस्रम् । षड्भागभृतो राजा रक्षेत् । रथकाराम्बष्ठ । चत्वारो वर्णाः । उत्तरत उपचारो विहारः । मृन्मयानां पात्राणाम् । शुचिमप्लवं देवा जुषन्ते । अभक्ष्याः पशवो ग्राम्याः । सपिण्डेष्वादशाहम् । गोचर्ममात्रम् । नित्यं शुद्धः कारुहस्तः । अथाऽतश्शौचाधिष्ठानम् । कमण्डलुद्विजातीनाम् । अथ कमण्डलुचर्यामुपदिशन्ति । अथ स्नातकस्य । घमार्थौ यत्र न स्याताम् । अष्टाचत्वारिंशद्वर्षाणि । पञ्चधा विप्रतिपत्तिः । उपदिष्टो धर्मः प्रतिवेदम् ॥

इति बौधायनीये धर्मसूत्रे प्रथमप्रश्ने एकविंशः खण्डः ॥

अनु०—इस विषय में निम्नलिखित पद्य उद्धृत किया जाता है अष्टमी को अध्ययन करना उपाध्याय का ही नाश करता है, चतुर्दशी का ( अध्ययन ) शिष्य का ही विनाश करता है, पंचदशी विद्या का ही नाश करती है, इस कारण इन पर्व दिनों पर अनध्याय नहीं करना चाहिए ॥ २४ ॥

उपाध्यायहनने तदलाभकृतो विघ्नो लक्ष्यते । एवं शिष्यहननेनाऽपि तदध्येत्रभावकृतः । विद्याहननेनाऽपि पुरुषान्तरनैरपेक्ष्याभावो लक्ष्यते । अन्योऽप्यध्ययनविघ्नसद्भावो द्रष्टव्यः । अत्यन्तनिःश्रेयसत्वादध्ययनस्य विघ्नसन्ततिरवश्याम्भाविनी । सा च तद्वर्जनेनैव परिहरणीया तथा चोक्तम्—'श्रेयांसि बहुविघ्नानि' इति ॥ २४ ॥

इति बौधायनीयधर्मसूत्रविवरणे गोविन्दस्वामिकृते प्रथमप्रश्ने गृह्यसूत्रे चतुर्दशप्रश्ने एकादशोऽध्यायः । प्रथमः ( गृह्यसूत्रे चतुर्दशः ) प्रश्नः समाप्तः


१. इमानि सूत्रैकदेशरूपाणि तत्तत्खण्डप्रतीकरूपाणि प्रश्नसमाप्त्यनन्तरमध्येतृ-सम्प्रदायेऽधीयन्ते प्रातिलोम्येन । तदनुसारेण मूलपुस्तकेषु लिखितानीत्यत्राऽपि मूल-सूत्रानन्तरं सम्प्रदायाविच्छेदाय लिखितानि ।