बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)
Baudhayana Dharmasutra Hindi
महर्षि बौधायन द्वारा
स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)
पृष्ठ 264, कुल 486 में से
संदर्भ में पढ़ें| २१२ | बौधायन-धर्मसूत्रम् | [ स्नातकधर्माः |
|---|
भवति । अन्यथा 'भुजोऽनवने' इत्यात्मनेपदमेव स्यात् । यस्माद्यथाशक्ति दत्त्वैव भुञ्जीतेति श्लोकद्वयस्यार्थः॥ १८॥
अथाऽन्नदानप्रसङ्गाद् द्रव्यदानमेतेभ्यः कर्तव्यमित्याह—
सुब्राह्मणश्रोत्रियवेदपारगेभ्यो गुर्वर्थनिवेशौषधार्थवृत्तिक्षीणयक्ष्यमाणाध्ययनाध्वसंयोगवैश्वजितेषु द्रव्यसंविभागो यथाशक्ति कार्यो बहिर्वेदिभिक्षमाणेषु ॥ १९ ॥
अनु०— सदाचारी ब्राह्मण वेदों के ज्ञान और अनुष्ठान से युक्त श्रोत्रिय, वेदविद्या में पारंगत पुरुष यदि यज्ञवेदि से भिन्न स्थान पर गुरु को दक्षिणार्थ देने के लिए विवाह के लिए, औषधके लिए, जीवनवृत्ति-विहीन होने पर कारण-पोषण के लिए, यज्ञ करने के लिए, अध्ययन के लिए, यात्रा के लिए या विश्वजित् यज्ञ करके पर धन की याचना करें तो उन्हें यथाशक्ति धन प्रदान करना चाहिए ॥ १९ ॥
टि०— उपर्युक्त दान यज्ञ के अतिरिक्त अन्य समय में भी देने का नियम है इस नियम के अनुरूप नियम मनुस्मृति में भी है, जिसे गोविन्द स्वामी ने उद्धृत किया है।
अस्मिन् सूत्रे चतुर्थ्यर्थे सप्तम्यौ द्रष्टव्यौ । यद्वा—निमित्तसंयोग एव चतुर्थ्यन्तः वेदपारगेभ्यः इत्यनुक्रम्य ' ?) द्रष्टव्यः । एवं च तेभ्य एव दानमित्युक्तं भवति । सुब्राह्मणः आचारसम्पन्नः ग्रन्थमात्रप्रयोजनो वा । श्रोत्रियस्तदनुष्ठानपरः । वेदस्य पारं पर्यन्तः निष्ठा तदर्थज्ञानं तद्गमयतीति वेदपारगः विचारसिद्धवेदार्थज्ञानवानित्यर्थः । गुर्वर्थः गुरुसंरक्षणपरः । निवेशो विवाहः । स निवेशार्थः । औषधं भेषजम् । वृत्तिक्षीणो हीनधनः । यक्ष्यमाणः प्रसिद्धः । अध्ययनसंयोगो ज्ञानैकशरणः । अध्वसंयोगः पन्थाः । विश्वजिन्नामा सर्वस्वदक्षिणः क्रतुः, तथाजो वैश्वजितः स चाऽन्येषामपि सर्ववेदस¹दायिनां प्रदर्शनार्थः । एतेभ्यो बहिर्वेदि अक्रतुकालेऽपि याचमानेभ्यो द्रव्यदानं यथाशक्ति कार्यम् । अत्र मनुः—
सान्तानिकं यक्ष्यमाणमध्वगं सार्ववेदसम् ।
गुर्वर्थपितृमात्रर्थस्वाध्यायार्थ्युपतापिनः ॥
नवैतान् स्नातकान् विद्याद् ब्राह्मणान् धर्मभिक्षुकान् ।
निस्स्वेभ्यो देयमेतेभ्यो दानं विद्याविशेषतः ॥ इति ॥
कृतान्नमितरेषु ॥ २० ॥
१. याजिनामिति. पु. पा.