बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)
Baudhayana Dharmasutra Hindi
महर्षि बौधायन द्वारा
स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)
पृष्ठ 286, कुल 486 में से
संदर्भ में पढ़ें| २३४ | बौधायन-धर्मसूत्रम् | [ स्नानविधिः |
|---|
टि०—तीर्थ से यहाँ पवित्र जलाशय से तात्पर्य है। गोविन्दस्वामी ने इस संबन्ध में श्लोक उद्धृत किया है जिसमें नदी, देवखात, तटाक, सरोवर पर स्नान करना वाञ्छनीय बताया गया है। सूत्र में मृत्पिण्ड के साथ प्रयुक्त 'च' शब्द से गोविन्द-स्वामी गेरुवर, दूब, दर्भ आदि के ग्रहण का भी अर्थ लेते हैं।
अथ स्नानविधिरुच्यते इति शेषः। तत्राऽऽरम्भे हस्तयोः प्रक्षालनम्। यद्वा तीर्थे गत्वा हस्तौ प्रक्षाल्येति सम्बन्धः। चशब्दात् गोमयदूर्वार्दभदि च। अन-पूर्वे हि समासे क्त्वो ल्यप् भवति, इह तु छान्दसो गृह्येति ल्यबादेशः। तीर्थम्।
नदीषु देवखातेषु तटाकेषु सरस्सु च।
स्नानं समाचरेन्नित्यमुत्स¹प्रस्रवणेषु च ॥ इति
तथा—
सति प्रभूते पयसि नाऽल्पे स्नायात् कथंचन।
इत्येवञ्जातीयकम्। तत्र गत्वा मृत्पिण्डैकदेशेन कमण्डलूदकेन चैकैकं पादं त्रिस्त्रिः प्रक्षालयते। एवमात्मानमपि।² आनर्थक्यदतदङ्गन्यायेनाऽऽत्मन-श्शरीरं प्रक्षालयेदिति गम्यताम् ॥ १ ॥
अथेदानीं प्रक्षालितपादेनैव प्रवेष्टव्यान् देशानाह--
अथ हैके ब्रुवते—श्मशानमापो देवगृहं गोष्ठं यत्र च ब्राह्मणा अप्र-क्षाल्य पादौ तन्न प्रवेष्टव्यमिति ॥ २ ॥
**अनु०—**कुछ लोग कहते हैं कि श्मशान में, जल में, मन्दिर में, गायों के गोष्ठ में तथा जिस स्थान पर ब्राह्मण हों वहाँ पैरों को धोए बिना प्रवेश नहीं करना चाहिए ॥ २ ॥
श्मशानादयः प्रथमान्ताश्शब्दा निर्देशफलाः। प्रातिपदिकार्थे हि प्रथमां स्मरति पाणिनिः। तेषां कर्मत्वख्यापनार्थं तच्छब्दप्रयोगः। द्वौ नञौ प्रकृत-मर्थं सूचयतः। तस्मात्प्रक्षाल्यैव प्रवेष्टव्यं श्मशानादीति वाक्यार्थः। 'अर्हे कृत्य-तृचश्च' इति स्मरणेन तव्यप्रत्ययादर्हार्थो गम्यते न तु कर्मत्वम्, प्रक्षाल्यैव प्रवेष्टुमर्हतीत्यर्थः ॥ २ ॥
१. गर्त्तस्रवणेषु चेति. ग. पु.
२. यत्र प्रधाने विहितं कार्यं तत्र कर्तुमशक्यत्वादनर्थकं भवत् तत्परिहाराय तदङ्गेऽनु-ष्ठीयते स आनर्थक्यदतदङ्गन्यायः। प्रकृते चाऽऽत्मनोऽमूर्तत्वात् तत्र प्रक्षालनक्रियादेरस-म्भवात् तदङ्गभूतस्य शरीरस्य प्रक्षालनं वेदितव्यमिति।