भारतकोश
बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

Baudhayana Dharmasutra Hindi

महर्षि बौधायन द्वारा

स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)

DevanagariHindipublished486 पृष्ठ

पृष्ठ 378, कुल 486 में से

संदर्भ में पढ़ें
पृष्ठ 378
३१६बौधायन-धर्मसूत्रम्[ यावकव्रतम्

तृतीयप्रश्ने षष्ठोऽध्यायः

षष्ठः खण्डः

प्रसृतयावकप्रसङ्गादिदमाह—

अथ कर्मभिरात्मकृतैर्गुरुमिवाऽऽत्मानं मन्येताऽऽत्मार्थे प्रसृतयावकं श्रपयेदुदितेषु नक्षत्रेषु ॥ १ ॥

**अनु०—**यदि कोई व्यक्ति अपने ही किए हुए कर्मों से (अनुताप के कारण) बोझ जैसा अनुभव करे तो नक्षत्रों के उगने पर अपने लिए एक मुट्ठी जौ का यवागू पकाए ॥ १ ॥

**टि०—**प्रसृतयावक की व्याख्या गोविन्द स्वामी ने 'गोकर्णपरिमितं यावकः यवविकारो यवागूर्वा' किया है ।

कर्मभिर्गर्हितैः गुरुमिव ।ऽजगरगीर्णमिवाऽऽत्मानं मन्यते । पुत्रदारादिकृतैनोन्निवृत्त्यर्थमात्मग्रहणम् । अत एवाऽऽत्मार्थमित्युक्तम् । आत्मार्थे न परार्थे एतस्मादेव लिङ्गादतोऽन्यत्र पापक्षपणे आत्विज्यमस्तीति गम्यते ॥ यद्वा—'नाऽऽत्मार्थं पाचयेत्' इत्यस्य प्रतिप्रसवोऽयम्—प्रसृतयावकमात्मार्थमेव श्रपयेदिति । ततश्च वैश्वदेवातिथिभृत्यादीनां द्रव्यान्तरमन्वेष्टव्यं भवति । सति चैवमुत्तरसूत्रेण प्राप्तस्याऽयमनुवादः 'न ततोऽग्नौ जुहुयात्' इति । प्रसृतं गोकर्णकरपरिमितं यावको यवविकारो यवागूर्वा उदितेषु नक्षत्रेष्विति श्रपणकालः॥१॥

न ततोऽग्नौ जुहुयान्न चाऽत्र बलिकर्म ॥ २ ॥

**अनु०—**उस यावक में से निकालकर अग्नि में हवन न करे और न उससे वैश्वदेव बलि का कर्म करे ॥ २ ॥

'यदंशनीयस्य' इति प्राप्तस्याऽयं प्रतिषेधः पर्युदासो वा ॥ २ ॥

अभृतं श्रप्यमाणं शृतं चाऽभिमन्त्रयेत् ॥ ३ ॥

**अनु०—**जौ पकाने के पहले तथा पकाये जाते समय निम्नलिखित मन्त्र से अभिमन्त्रण करे ॥ ३ ॥

यवानामवघातावस्थायां पाकावस्थायां पक्वावस्थायां चाऽन्वीक्ष्य मन्त्रं ब्रूयादित्यर्थः ॥ ३ ॥

तदाह—

यवोऽसि धान्यराजोऽसि वारुणो मधुसंयुतः ।
निर्णोदस्सर्वपापानां पवित्रमृषिभिस्स्मृतम् ॥ ४ ॥