भारतकोश
बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

Baudhayana Dharmasutra Hindi

महर्षि बौधायन द्वारा

स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)

DevanagariHindipublished486 पृष्ठ

पृष्ठ 430, कुल 486 में से

संदर्भ में पढ़ें
पृष्ठ 430

३७६ | बौधायनधर्मसूत्रम् | [ रहस्यप्रायश्चित्तानि

चतुर्थप्रश्ने तृतीयोऽध्यायः

तृतीयः खण्डः

अधुना रहस्यप्रायश्चित्तान्याह—

प्रायश्चित्तानि वक्ष्यामोऽविख्यातानि विशेषतः ।
समाहितानां युक्तानां प्रमादेषु कथं भवेत् ॥ १ ॥

**अनु०—**अब हम विशेषतः उन प्रायश्चित्तों का विवेचन करेंगे जो अविख्यात हैं और हम यह बतायेंगे कि अपने कर्त्तव्य में तत्पर रहने वाले व्यक्तियों के प्रमाद का प्रायश्चित्त किस प्रकार हो ॥ १ ॥

अविख्यातानि अविख्यातदोषाणि । यावता विना यत्पापं कर्तुं न शक्यते तद्रूपतिरिक्तम् अविख्यातदोषमुच्यते । यद्वा—अविख्यातानि अन्यैर्धर्मशास्त्रकारैरदृष्टानि । अथवा—प्रायश्चित्तान्येव अविख्यातानि अन्यैः पुरुषैः । आत्मन इवाऽस्मिन् पुरुषे निमित्ते सत्येतत्प्रायश्चित्तमित्यनवगतानि । अत एव—विशेषतः विशिष्टपुरुषाणां विदुषामित्यर्थः । तानेव विशिनष्टि—समाहितानामिति । समाहिता अविक्षिप्तचित्ताः, युक्ताश्शास्त्रचोदितेषु कर्मसु निरताः । प्रमादेषु अबुद्धिपूर्वककृतेषु । तथा च वसिष्ठः—

आहिताग्नेर्विनीतस्य वृद्धस्य विदुषश्च यत् ।
रहस्योक्त प्रायश्चित्तं पूर्वोक्तमितरस्य तु ॥

कथं भवेदित्याशङ्कायां वक्ष्याम इति शेष ॥ १ ॥

ॐपूर्वाभिर्व्याहृतीभिस्सर्वाभिस्सर्वपातकेष्वाचामेत् ॥ २ ॥

**अनु०—**पहले ओंकार का उच्चारण करते हुए तथा सभी व्याहृतियों का उच्चारण करते हुए सभी पातकों को दूर करने के लिए आचमन करें ॥ २ ॥

प्रतिव्याहृति प्रणवसम्बन्धः कर्तव्यः । एकैकया वा आचमनम् । ततः परिमार्जनं चक्षुराद्युपस्पर्शनं च ॥ २ ॥

एवं विशिष्टं प्रशस्याऽऽचमनं अवयवशः प्रशंसितुमाह—

यत्प्रथममाचामति तेनर्ग्वेदं प्रीणाति, यद्द्वितीयं तेन यजुर्वेदं, यत्तृतीयं तेन सामवेदम् ॥ ३ ॥ यत्प्रथमं परिमाष्टि तेनाऽथर्ववेदं यद्द्वितीयं तेनेतिहासपुराणम् ॥ यत्सव्यं पाणिं प्रोक्षति पादौ शिरो हृदयं नासिके चक्षुषी श्रोत्रे नाभिं चोपस्पृशति तेनौषधिवनस्पतयः सर्वाश्च देवताः प्रीणाति तस्मादाचमनादेव सर्वस्मात्पापात्प्रमुच्यते ॥ ५ ॥

बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद) · पृष्ठ 430, कुल 486 में से · BharatKosha