भारतकोश
बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

Baudhayana Shrautasutra of Taittiriya Samhita with Commentary

आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा

DevanagariHindipublished774 पृष्ठ

पृष्ठ 103, कुल 774 में से

संदर्भ में पढ़ें
पृष्ठ 103

दशाध्यायिकः आग्रयणम् ८२ बौधायनश्रौतसूत्रम् । [ ३ । ११, १२ । ] पवीतं कृत्वा प्राजापत्ययर्चा गार्हपत्यमुपतिष्ठते प्रजापते न त्वदेतान्यन्य इत्य॑थैतां द्वितीयां जपति यदन्तरिक्षं पृथिवीमुत द्यामिति॑ संतिष्ठते पिण्डपितृयज्ञः॑ ॥ ११ ॥ चतुर्थः ॥ वर्षासु श्यामाकानामागयणं करिष्यन्भवति॑ तस्य प्रज्ञात उपवसथो॑ ऽथ प्रातर्हुते ऽग्निहोत्रे पृश्न्याँ स्तैर्वापः प्रणीय ५ सौम्यँ श्यामाकं चरुं निर्वपति॑ हविष्कृता वाचं विसृज्य गार्हपत्य आज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतं गृहीत्वाऽहव- नीये ऽज्यानीर्जुहोति शतायुधाय शतवीर्यायेति पञ्च॑ श्रप- यित्वासादयति॑ तस्याः पञ्चदश सामिधेन्यः पञ्च प्रयाजा वार्त्रघ्नावाज्यभागावथ हविष आप्यायस्व सं त इति॑ त्रिष्टुभौ १० संयाज्ये॑ अन्वाहार्यमासाद्य वासो ददात्यथ यजमानभागं प्राश्नात्यग्निः प्रथमः प्राश्नातु स हि वेद यथा हविः । शिवा अस्मभ्यमोषधीः कृणोतु विश्वचर्षणिरिति॑ संतिष्ठत एषेष्टिः सपूर्णपात्रविष्णुक्रमा॑ विसृजते व्रतमथ शरदि व्रीहीणामाग्य- यणं करिष्यन्भवति॑ तस्य प्रज्ञात उपवसथो॑ ऽथ प्रातर्हुते १५ ऽग्निहोत्रे पृश्न्याँ स्तैर्वापः प्रणीयेन्द्राग्नं द्वादशकपालं निर्वपति वैश्वदेवं चरुं द्यावापृथिव्यमेककपालमिति॑ हविष्कृता वाचं विसृज्य गार्हपत्य आज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतं गृहीत्वाऽऽहवनीये ऽज्यानीर्जुहोति शतायुधाय शतवीर्यायेति पञ्च॑ श्रपयित्वासादयति॑ तस्याः पञ्चदश सामिधेन्यः पञ्च २० प्रयाजा वार्त्रघ्नावाज्यभागावथ हविषामिन्द्राग्नी रोचना दिवः श्लथद्वृत्रमित्यैन्द्राग्नस्य॑ विश्वे देवा विश्वे देवा इति वैश्वदेवस्य॑