बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 112, कुल 774 में से
संदर्भ में पढ़ें[ ३ । २८, १६ । ] बौधायनश्रौतसूत्रम् । ६१ मार्जयते१ मनो ज्योतिर्जुषतामाज्यं विच्छिन्नं यज्ञꣳ समिमं दधातु । बृहस्पतिस्तनुतामिमं नो विश्वे देवा इह मादयन्ता- मिति । बर्हिषदं पुरोडाशमभिमन्त्रयते ब्रध्न पिन्वस्व ददतो मे मा क्षायि कुर्वतो मे मोपदसदित्यन्वाहार्यं याचति । ५ समन्तर्वेद्यासन्नमभिमन्त्रयते प्रजापतेर्भागो ऽस्यूर्जस्वान्पयस्वा- नित्यान्नादनुवाकस्य१ ॥ १८ ॥ सप्तमः ॥ अनूयाजानामिष्टमिष्टमनुमन्त्रयते२ बर्हिषो ऽहं देवयज्यया प्रजावान्भूयासं नराशꣳसस्याहं देवयज्यया पशुमान्भूयासमग्नेः स्विष्टकृतो ऽहं देवयज्ययायुष्मान्यज्ञेन प्रतिष्ठां गमेयमित्यथ यत्र १० होतुरभिजानात्यग्निरिदं हविरजुषतेति तद्यजमानमुज्जितिं३ वाचयत्यग्नेरहमुज्जितिमनूज्जेषमिति यथेष्टमुक्तं वाजवत्योर्ध्वनमथ यत्र होतुरभिजानात्याशास्ते ऽयं यजमानो ऽसाविति तद्यजमानं यज्ञस्य दोहं वाचयत्येमा अग्मन्नाशिषो दोहकामा इन्द्रवन्तो वनामहे धुक्षीमहि प्रजामिषमिति । प्रस्तरं प्रह्रियमाणमनु- १५ मन्त्रयते रोहितेन त्वाग्निर्देवतां गमयतु हरिभ्यां त्वेन्द्रो देवतां गमयत्वेतशेन त्वा सूर्यो देवतां गमयत्विति । परिधीन्विमुच्य- मानाननुमन्त्रयते वि ते मुञ्चामि रशना वि रश्मीन्वि योक्त्रा ण्यानि परिचर्तनानि । धत्तादस्मासु द्रविणं यच्च भद्रं प्र णो ब्रूताद्भागधान्देवेतास्विति१ । शंयुवाकमुक्तमनुमन्त्रयते विष्णोः १ Thus BHT ; मार्जयति Be FJ. २ इदं twice T Be, once the other MSS. ३ Thus TF Mādh. ; उज्जितीर् or उज्जीती the other MSS.