बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 114, कुल 774 में से
संदर्भ में पढ़ें[ ३।२०, २१।] बौधायनश्रौतसूत्रम् । ६३ प्रजया भूयासं मा परासेचि मत्पय इत्य॑थोपोत्थाय दक्षिणेन पदा विष्णूक्रमान्क्रामते ॥ २० ॥ विष्णोः क्रमो ऽस्यभिमातिहा गायत्रेण छन्दसा पृथिवी- मनु विक्रमे निर्भक्तः स यं द्विष्म इति चतुर्भिरनुच्छन्दसं' तृतीये चतुर्थमनुवर्तयति' न चतुर्थाय प्रक्रामति' नाहवनीय- मुपात्येत्य॑थैव तिष्ठन्नाहवनीयमुपतिष्ठते ऽगन्म सुवः सुवरगन्म संदृशस्ते मा छित्सि यत्ते तपस्तस्मै ते मावृक्षीत्य॑थादित्य- मुपतिष्ठते सुभूरसि श्रेष्ठो रश्मीनामायुर्धा अस्यायुर्मे धेहि वर्चोधा असि वर्चो मयि धेहीत्य॑थेभ्यो लोकेभ्यो भ्रातृव्यं निर्भजतीदमहममुं भ्रातृव्यमाभ्यो दिग्भ्यो ऽस्यै दिवो ऽस्मा- दन्तरिक्षादस्यै पृथिव्या अस्मादन्नाद्यान्निर्भजामि निर्भक्तः स यं द्विष्म इत्य॑थाप उपस्पृश्य' सं ज्योतिषाभुवमित्युरः प्रत्या- त्मानं प्रत्यभिमृशते' ऽथ दक्षिणमंसमभि पर्यावर्तत ऐन्द्री- मावृतमन्वावर्त इत्य॑थोदङ् पर्यावर्तते समहं प्रजया सं मया प्रजा समहं रायस्पोषेण सं मया रायस्पोष इत्य॑थाहवनीये समिधमादधाति समिद्धो अग्ने मे दीदिहि समेद्धा ते अग्ने दीद्यासम् स्वाहेत्य॑थाहवनीयमुपतिष्ठते वसुमान्यज्ञो वशी- यान्भूयासमित्य॑थाग्निपावमानीभ्यां गार्हपत्यमुपतिष्ठते ऽग्न आयूंषि पवस ऽग्ने पवस्वेत्यथ गार्हपत्यमेवोपत्तिष्ठते ऽग्ने गृहपते सुगृहपतिरहं त्वया गृहपतिना भूयासम् सुगृह- पतिर्मया त्वं गृहपतिना भूयाः शतम् हिमास्तामाशिष- माशासे मह्यममुष्मै ज्योतिष्मतीं तामाशिषमाशासे ऽमुष्मा