बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 135, कुल 774 में से
संदर्भ में पढ़ें११४ बौधायनश्रौतसूत्रम् । [ ४ । ४ । ]
खास्तिष्ठन्ति पूर्व एवाध्वर्युरपरो यजमानो ऽपरा पत्न्यं प्रवृक्ष्य चषालं यूपस्याग्रमनक्ति देवस्त्वा सविता मध्वानक्त्वित्यन्तरतश्च बाह्यतश्च॑ खभक्तं कृत्वा चषालं प्रतिमुञ्चति सुपिप्पलाभ्यस्त्वौ- षधीभ्य दूत्यथ सुवेणाग्निष्ठामश्रिमभिघारयन्नाह यूपाय्याज्य- मानायानुब्रूह्यैत्यान्नमनक्त्यन्तमेव यजमानं तेजसानक्ति॑ नोप- ५ रमनक्ति॑ पत्न्युपरमनक्ति॑ सर्वतः परिमृशन्त्यपरिवर्गमेवास्मिंस्तेजो दधातीति ब्राह्मणमुच्छ्रयन्नाहोच्छ्रीयमाणायानुब्रूह्युच्छ्रयत्यु- दिवᳲ स्तभानान्तरिक्षं पृण पृथिवीमुपरेण दृꣳहेत्यथैनं वैष्णवी- भ्यामृग्भ्यां कल्पयति ते ते धामानि विष्णोः कर्माणि पश्यतेति द्वाभ्याᳲ॑ स यथाग्निष्ठामश्रिमाह