बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 138, कुल 774 में से
संदर्भ में पढ़ेंदङ्क्त्याक्रम्य खरुं च प्लामं च याचति॑ तौ जुह्वामङ्का१ ताभ्यां पशुᳪ समनक्ति घृतेनाक्तौ पशुं त्रायेथामिति॑ प्रयच्छति प्लाममेवगूहति खरुमथ यथायतनᳪ स्रुचौ सादयित्वाह पर्यग्नये क्रियमाणायानुब्रूहीत्यथैष आग्नीध्र आहवनीयादुल्मुकमादा- ५ यान्तरेण चात्वालोत्करावुत्तरेण शामित्रं देशमग्रेण पशुं जघनेन स्रुच इत्येवं त्रिः प्रदक्षिणं पर्येत्यथानुपपरिमरणमपाव्यानि जुहोति प्रजावन्तः प्रतिगृह्णन्ति पूर्वं येषामीशे पशुपतिः पशूनां ये बध्यमानमनु बध्यमाना य आरण्याः पशवो विश्वरूपाः प्रमुञ्चमाना भुवनस्य रेत इति॑ निधायाग्नीध्र उल्मुकं यथेतं १० त्रिः पुनः प्रतिपर्येत्यथोल्मुकप्रथमाः२ प्रतिपद्यन्ते॑ ऽन्वक्छमिता३ पशुना॑ पशुमध्वर्युर्वपाश्रपणीभ्यामन्वारभते॑ वपाश्रपणी यज- मानो॑ ऽथश्राव्य संप्रेष्यत्युपप्रेष्य होतर्हव्या देवेभ्य इत्यथैतं४ पशुमन्तरेण चात्वालोत्करावुदञ्चं नीयमानमनुमन्त्रयते नाना प्राणो यजमानस्य पशुना रेवतीर्यज्ञपतिं प्रियधाविशतेति १५ द्वाभ्याम्॑ स५ यत्रैतदाग्नीध्र उल्मुकं निदधाति तदग्रेण वोत्तरेण वा पशवे निहन्यमानाय बर्हिरुपास्यति पृथिव्याः संपृचः पाहीति॑ तदेतं पशुं प्रतीचीनशिरसमुदीचीनपादं निघ्नन्त्यकण्वन्तं मायुᳪ संज्ञपयतेत्युक्तैतेनैव यथेतमेत्य पृषदाज्यावकाश आसत इह १ Thus all ( F : षन्मा ) । २ FH om प्रति० । ३ Thus Be ; न्वक्प्रमिता B ; न्वक्श्मिता the other MSS. ४ Thus T Be ; अथैनं the other MSS. ५ om. BF.