बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 156, कुल 774 में से
संदर्भ में पढ़ें[ ५ । ५, ६ । ] बौधायनश्रौतसूत्रम् । १३५
प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्य स्रुवौ च स्रुचश्च संमृष्टस्तूष्णीं १ पृषदाज्यग्रहणौ' पत्नीꣳ संनह्याज्याभ्यां च दध्ना चोदेत' आज्ये च प्रोक्षणीश्चोत्पूय प्रसिद्धं पृषदाज्यवन्त्येवाज्यान्यध्वर्युरुत्त- रस्यां वेद्यां गृह्णीते' दार्शपौर्णमासिकानि प्रतिप्रस्थाता ५ दक्षिणस्याम्' ॥ ५ ॥ अथ प्रोक्षणीभिरुपोत्तिष्ठत' २ दृम्भौ प्रोक्षतो' वेदी प्रोक्षतो' बर्हिषी प्रोक्षतो' बर्हिषी आसन्ने प्रोक्ष्योपनिनीय पुरस्तात्प्रस्तरौ गृह्णीतः' पञ्चविधमेवाध्वर्युरुत्तरस्यां वेद्यां बर्हि स्तृणाति' त्रिविधं प्रतिप्रस्थाता दक्षिणस्यामथ प्रस्तरपाणी १० प्राञ्चावभिसृप्य कार्ष्मर्यमयान्परिधीन्परिधत्त' ऊर्ध्वाः समिध आदधत्तो' विधृतीस्तिरश्चीः ३ सादयतो' विधृतीषु प्रस्तरौ' प्रस्तरयोजुह्वौ' बर्हिषोरितरा' ४ एता असदन्निति समभिमृश्य प्रदक्षिणमावृत्य प्रत्यञ्चावाद्ववतो ५दक्षिणत एवाध्वर्युरुत्तरतः प्रतिप्रस्थातानुपूर्वं ६ हवीꣳष्युद्वासयत' आग्नेयप्रभृत्येवाध्वर्यु- रुद्वासयति प्रसिद्धमैन्द्राग्नान्मारुतौ प्रतिप्रस्थाता कꣳसे वा चमसे
१ Thus J only; the other MSS. mostly ॰स्रुवं । २ उपोत्तिष्ठान F. ३ Corrected. विधृतीस्तिरश्चः T; विधृत्यस्तिरश्चाः B; विधृत्यतिरश्च्यः Be; विधृत्यस्तिरश्चः H; विधृत्यास्तिरश्चाः F; विधृत्य