बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
DevanagariHindipublished774 पृष्ठ
पृष्ठ 162, कुल 774 में से
संदर्भ में पढ़ेंपृष्ठ 162
विसृजते व्रतमथ पौर्णमासवैमृधाभ्यामिष्ट्वा यजमानायतन उपविश्य चेष्णा शलल्या लोहितायसस्य च क्षुरेण शीर्षण्णि व- वर्तयते परि च वपते यद्धर्मः पर्यवर्तयदन्तान्पृथिव्या दिवः । अग्निरौशान ओजसा वरुणो धीतिभिः सह । इन्द्रो मरुद्भिः ५ सखिभिः सह ॥ अग्निस्तिग्मेन शोचिषा तप आक्रान्तमुष्णाहा । शिरस्तपस्याहितं वैश्वानरस्य तेजसा । ऋतेनास्य निवर्तये सत्येन परिवर्तये । तपसास्यानुवर्तये शिवेनास्योपवर्तये शग्मेनास्याभि- वर्तये ॥ शीर्षांस्तदृतं तत्सत्यं तद्धृतं तच्छकेयं तेन शकेयं तेन राध्यासमिति पुरस्तादेवाग्रे ऽथ दक्षिणतो ऽथ पश्चादथोत्तरतो १० ऽथोपरिष्टात्संतिष्ठन्ते वरुणप्रघासमहवींषि॑ परिवत्सरीणाꣳ स्वस्तिमाशास्त इत्युपास्ते॑ ॥ ६ ॥ द्वितीयः ॥ अथा