बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 185, कुल 774 में से
संदर्भ में पढ़ेंइत्य॑थास्मै कꣳसे वा चमसे वा निःषिच्य व्रतं प्रयच्छति॑ तद्दक्षिणतः परिश्रित्य व्रतयति ये देवा मनोजाता मनोजुजः सुदक्षा दक्षपितारस्ते नः पान्तु ते नो ऽवन्तु तेभ्यो नमस्तेभ्यः स्वाहेति॑ यजुषा यावन्मात्रं व्रतयित्वा तूष्णीं॑ भूयो व्रतयत्ये॑- तस्मिन्काले प्रतिप्रस्थाता पत्न्यै पात्रे निःषिच्य व्रतं प्रयच्छति॑ । तस्या परिश्रित्य व्रतयति तूष्णीं॑ ' निर्णिज्य पात्रे प्रयच्छतो॑ ' ऽथ तथैव पुरा नक्षत्राणामन्तर्धानात्सं प्रेष्य वाचंयमयोर्व्रते दोहयतो॑ ऽथोदित आदित्ये यजमानः कृष्णाजिनमासज्य पूर्वया द्वारोपनिष्क्रम्याग्रेण शालां तिष्ठन्भूर्भुवः सुवर्व्रतं शृणुत व्रतं शृणुतेति त्रिर्वाचं विसृजते॑ समानो वाचो विसर्गः समानꣳ १० संवेशनयजुः समानं प्रबुद्धयजुः समानमपामाचमनꣳ समानं व्रतनम॑थ सञ्जीहारान्प्रहिणोति॑ स यं मन्यते न मा प्रत्या- ख्यास्यतीति तं प्रथममभि प्रहिणोति विश्वे देवा अभि मामाववृत्रन्पूषा मत्या सोमो राधसा देवः सविता वसोर्व- सुदावेत्याहरन्तं दृष्ट्वा जपति नानाहरन्तꣳ रास्वेयत्सोमा १५ भूयो भर मा पृणन्पूर्त्या विराधि माहमायुषेति॑ स यथारूपं प्रतिगृह्णाति ॥ ७ ॥ चन्द्रमसीति हिरण्यं॑ वस्त्रमसीति वास॑ उस्रामसीति गाम्॑ ' हयो ऽसीत्यश्वं॑ छागो ऽसीति छागं॑ मेषो ऽसीति मेषम॑थ यद्ब्रा- ह्मणेनानादिष्टं भवति प्राजापत्यमसि मम भोगाय भवेत्येव तत्प्रति- २० गृह्णाति॑ ताः समुदायुत्य¹ रक्षन्ति॑ तासां या नश्यति वा म्रियते
१ Thus BTJ; समुदायिकृत्य H; समुदायेकृत्य F.