बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 22, कुल 774 में से
संदर्भ में पढ़ेंबौधायनश्रौतसूत्रम् । आमावास्येन वा पौर्णमासेन वा हविषा यक्ष्यमाणो भवति ' स पुरस्तादेव हविरातञ्चनमुपकल्पयत ' एकाहेन वा द्व्यहेन वा यथार्थं वै ब्राह्मणं भवति दध्रातनक्ति सेन्द्रत्वायाग्नि- होत्रोच्छेषणेनाभ्यातनक्ति यज्ञस्य संतत्या इति ' चन्द्रमसं वा- ५ निज्ञाय संपूर्णं वा विज्ञायाग्नीनन्वादधाति ' त्रीणि काष्ठानि गार्हपत्ये ऽभ्यादधाति त्रीण्यन्वाहार्यपचने त्रीण्याहवनीये ' परि- समूहन्त्युपवसथस्य रूपं कुर्वन्त्यथास्य व्रतोपेतस्य पर्णशाखामा- च्छैति १ प्राङ् वोदङ् वा वाचंयमो यत्र वा वेत्स्यन्मन्यते ' सा या प्राची वोदीची वा बहुपर्णा बहुशाखाप्रतिशुष्काग्रा भवति तामा- १० च्छिनत्तीषे त्वोर्जे त्वेति 'तया वत्सानपाकरोति वायव स्थोपायव स्थेत्यैषां मातृः प्रेरयति देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मण आप्यायध्वमघ्निया देवभागमूर्जस्वतीः पयस्वतीः प्रजा- वतीरनमीवा अयक्ष्मा मा व स्तेन ईशत माघशंसो रुद्रस्य हेतिः परि वो वृणक्त्विति ' ध्रुवा अस्मिन्गोपतौ स्यात बह्वीरिति १ Thus Koś. Sāy. Darśapūrn. prayoga by Veṅkateśvara (MS. Tübingen M.A. 1. 317) and Prayoga Burnell No. 52 (Grantha MS.); comp. आछायने of the Dvaidha Sūtra and Bh.; आकारः प्रमाद- पाठ इति केचित् . Most MSS. read आछेति or आच्छेति ; आच्छाति B. 1