बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 221, कुल 774 में से
संदर्भ में पढ़ेंअथातो महारात एव बुध्यन्ते ' संबोधयन्त्येतानृत्विजो ऽध्वर्युꣳ होतारं ब्रह्माणमुद्गातारं प्रतिप्रस्थातारं प्रस्तोतारं प्रशास्तारं ब्राह्मणाच्छꣳसिनमच्छावाकं नेष्टारं पोतारꣳ सदस्यानुन्नेतार- माग्नीध्रं ग्रावस्तुतꣳ सुब्रह्मण्यां प्रतिहर्तारं ये चान्ये परिकर्मिणो भवन्ति ' ते हस्तपादान्प्रक्षाल्याग्नीध्रे यजमानमुपसंगच्छन्ते ' । ऽथाध्वर्युर्हस्तौ संमृशते कर्मणे वां देवेभ्यः शकेयमित्यथैताँश्चैवं तिष्ठन्संप्रैषमाहोन्नेतर्ग्राव्णो वायव्यानि द्रोणकलशे दशापवित्रे समवधाय दक्षिणस्य हविर्धानस्य पुरो ऽक्षꣳ सꣳसाद्याग्नीदाज्य- मधिश्रय प्रतिप्रस्थातः स्रुचः संमृड्ढ्याज्येनोदेहि पृषदाज्याय दध्याहरेति ' यथासंप्रैषं ते कुर्वन्त्यथाध्वर्युराग्नेय्यर्चाग्नीध्रमभि- १० मृशत्यग्निर्मूर्धा दिव इति ' वैष्णव्या हविर्धानं विष्णो त्वं नो अन्तम इत्याग्नेय्या स्रुचो ऽयमग्निः सहस्रिण इति ' वायव्यया वायव्यानि वायो शतं हरीणामित्यैन्द्या सद इन्द्रं विश्वा [