बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 239, कुल 774 में से
संदर्भ में पढ़ेंद्विरभिघारयति' न प्रत्यनक्त्येत्याक्रम्याश्राव्याह प्रातः प्रातः- सावस्येन्द्राय पुरोडाशान्प्रस्थितान्प्रेष्येति' वषट्कृते जुहोत्यथ समावपमान आहाग्नये ऽनुब्रूहीत्योश्राव्याहाग्नये प्रेष्येति' वषट्कृत उत्तरार्धपूर्वार्ध ऽतिहाय पूर्वा आहुतीर्जुहोत्यथोदङ्ङत्याक्रम्य यथायतनग्ँ स्रुचौ सादयित्वा पात्र्यामिडाग्ँ समवधाय प्रतीचः ५ पुरोडाशान्प्रहिणोत्य॑नु हैके संयन्ति पशव इडेति वदन्तो' ऽथ प्राङायन्नाह वायव इन्द्रवायुभ्यामनुब्रूहीति' तच्छ्रुत्वा प्रतिप्रस्थातैन्द्रवायवस्य प्रतिनिर्ग्राह्यं' गृह्णाति द्रोणकलशात्परि- प्लुना पात्रेणादित्यस्थाल्या औपशय्ये पात्र उपयामगृहीतो ऽसि वाचसदसि वाक्पाभ्यां त्वा क्रतुपाभ्यामस्य यज्ञस्य ध्रुवस्याध्यक्ष्याभ्यां १० गृह्णामीति' ग्रहावादायोपनिष्क्रामत्युपनिष्क्रान्तस्यैवाध्वर्युर्ग्रहा- वादत्त' उत्तरतस्तिष्ठते प्रतिप्रस्थात्रे प्रतिनिर्ग्राह्यं१ प्रयच्छत्यथ वै भवत्यैन्द्रवायवमादायाघारमाघारयेदिति' स आज्यस्थाल्याः२ स्रुवेणोपहत्यैन्द्रवायवमादायाघारमाघारयत्यध्वरो यज्ञो ऽय- मस्तु देवा ओषधीभ्यः पशवे नो जनाय विश्वस्मै भूतायाध्वरो १५ ऽसि स पिन्वस्व घृतवद्देव सोम स्वाहेत्य॑थाश्रावयत्यो श्रावयास्तु श्रौषड्वायव इन्द्रवायुभ्यां प्रेष्येति' वषट्कृते ऽध्वर्युः पूर्वो जुहोति' द्वितीयं वषट्कृते सहोभौ जुहुतो' ऽन्वा वाचयति यो न
१ Here and infra, without y, BJT Bh. ( Grantha MS. and Dev. MS. ); प्रतिनिर्ग्राह्यं FHP Dvaidha, Keś., Padārthanirv. ( F once without y). २ ॰स्या FH ; ॰स्याः BT ; ॰स्यां J.