बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 268, कुल 774 में से
संदर्भ में पढ़ेंप्रियेभ्यः प्रियधामभ्यः प्रियव्रतेभ्यो महस्सरस्य पतिभ्य उरोरन्त- रिक्षस्याध्यक्षेभ्यो ऽनुब्रूहीत्याक्रम्याश्राव्याहादित्येभ्यः प्रियेभ्यः प्रियधामभ्यः प्रियव्रतेभ्यो महस्सरस्य पतिभ्य उरोरन्तरिक्ष- स्याध्यक्षेभ्यः प्रेष्येति । वषट्कृत ओषधीः प्रास्याश्रावादित्यं जुहोति ५ मरुद्देव॑ । न श्लथान्वोक्षते॑ । पर्यावृत्तस्यैव प्रतिप्रस्थाता पात्रमा- दत्त॑ । एतस्मिन्काले प्रतिहर्ता पूतभृतो बिले पवित्रं वितत्य द्वौ वा त्रीन्वा राज्ञ उदचनानानयत्याग्रयणमेवाध्वर्युरादत्त॑ । आदित्यस्थालीं प्रतिप्रस्थाता चोपग्रा॒हᳲ संप्रगृह्णाति॑ । तामां तिसृणां चतसृणां वा १ धाराणां २ तथोपरिष्टादाग्रयणमानीयाध- १० स्तादुपगृह्णाति॑ । तं३ तथैव चिरभिषिच्य परिमृज्य सादय- त्यपोद्धृत्य पवित्रं बर्हिषी अन्तर्धायाशिरमवनयत्यन्वारब्धायां पत्न्यामस्मे देवासो वपुषे चिकित्सेतेति चतसृभिरनुच्छन्द- समपोद्धृत्य बर्हिषी पूतभृतो बिले द्रप्साननुमन्त्रयते॑ । द्वौ पवमानस्य ग्रहौ गृह्णाति॑ । तयोश्चेतरित्याह प्राञ्च॒ꣲ राजानं १५ पूतभृतमभि संपवयताद्गाभिराधवनीयं मृक्षा न्युब्जादिति॑ । स तथा करोति॑ । तथाप उपस्पृश्य बर्हिषो ऽादायोपनिःसर्पति॑ । तेषु तथैव समन्वारब्धेष्वाहवनीये स्रुवाहुतिं जुहोति॑ ॥ १० ॥ इदं तृतीयꣲ सवनं कवीनामृतेन ये चमसमैरयन्त । ते सौधन्वनाः सुवरानशानाः स्विष्टिं नो अभि वसीयो नयन्तु २० स्वाहेत्येतयाध्वर्युर्जुहुतो॑ । यथावेदमितरे जुह्वति॑ । तथा १ च T. २ तथा om THF. ३ om. T.