बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 277, कुल 774 में से
संदर्भ में पढ़ेंविश्वे त्वा देवा वैश्वानराः प्रच्यावयन्वित्यथैनमाहरति दिवि देवान्दृंहान्तरिक्षे वयांसि पृथिव्यां पार्थिवानित्यथैनग्ं होतृचमसे ऽवनयति ध्रुवं ध्रुवेण हविषाव सोमं नयामसि । यथा नः सर्वमिज्जगदयक्ष्मं सुमना असत् ॥ यथा न इन्द्र इद्विशः केवलीः सर्वाः समनसः करत् । यथा नः सर्वा इद्विशो ५ ऽस्माकं केवलीरसन्निति ' प्रसिद्धमुक्थं प्रतिगीर्य प्राडेत्योद्यच्छत एतग्ं होतृचमसमन्वूद्यच्छन्ते चमसानथाश्रावयत्यो श्रावयास्तु श्रौषडुक्थशा यज सोमानामिति ' वषट्कृतानुवषट्कृते द्विर्जुहोति ' तथैव द्विर्द्विः सर्वाग्ंश्चमसाञ्जुह्वत्यथ भक्षैः प्रत्यञ्च आद्रवन्त्यनु- सवनभक्षो ऽग्निना वैश्वानरेण मरुद्भिः पीतस्य मधुमत उपहूत- १० स्योपहूतो भक्षयामीति ' होतृचमसमेवैते त्रयः समुपह्वय भक्षयन्ति ' यथाचमसं चमसान्हिन्व म इत्यात्मानं प्रत्यभि- मृशन्ते ' नाप्याययन्ति चमसान्सर्वभक्षा मार्जयन्ते ' ऽथैताग्ंश्च- मसानद्भिः पूरयित्वोत्तरेणाहवनीयं प्राचो वोदीचो वायात- यति ' तेषु त्रीग्ंस्त्रीग्ंस् दूर्वाग्रन्थीन्प्रास्यत्येकैकं च दर्भपुञ्जील- १५ मथोक्थं वाचीन्द्रायेत्याह तृतीयसवनं प्रतिगीर्य प्रशास्तः प्रसु- हीति ' सर्पतेत्याह प्रशास्ता ' संतिष्ठते तृतीयसवनम् ' ॥ १५ ॥ चतुर्थः ॥ अथ संप्रैषमाहाग्नीदौपयजानङ्गारानाहरोपयष्टरुपसीद ब्रह्मन्प्रस्थास्यामः समिधमाधायाग्नीदग्नीन्सकृत्सकृत्संमृड्ढीत्या- २० हरन्त्येतानाग्नीध्रादौपयजानङ्गारान्स्तान्ग्रेण होतारं निवपत्यु- पशामोदत्युपयष्टा गुदतृतीयेनोथाध्वर्युः पृषदाज्यं विहृत्य जुह्वाग्ं