बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 281, कुल 774 में से
संदर्भ में पढ़ेंप्रस्तोतारमाह प्रस्तोत् साम^१ गायेति ' साम्ना प्रस्तोतान्ववैति ' त्रिर्निधनमुपैति ' पुरुषःपुरुषो निधनमुपैतीति ब्राह्मणं संथान्तरेण चात्वालोत्करावुदङ्ङुपनिष्क्रामन्त्युरुँ हि राजा वरुणश्चकार सूर्याय पन्थामन्वेतवा उ । अपदे पादा प्रतिधातवे ऽकरुताप- वक्ता हृदयाविधश्चिदिति ' विषुवति द्वितीयं निधनमुपयन्त्यपः ५ पराख्याथ वाचयति शतं ते राजन्भिषजः सहस्रमुर्वी गभीरा सुमतिष्टे अस्तु । बाधस्व द्वेषो निर्ऋतिं पराचैः कृतं चिदेनः प्रमुमुग्ध्यस्मदित्युदकान्ते तृतीयं निधनमुपयन्त्य'थापामन्तमभि- तिष्ठन्त्यभिष्ठितो वरुणस्य पाश इत्य'थाप्सु बर्हिः प्रास्यत्यग्ने- रनीकमप आविवेश । अपां नपात्प्रतिरक्षन्नसुर्यं दमेदमे समिधं १० यक्ष्यग्न इत्य'थैनत्स्रुवाङ्गुल्याभिजुहोति प्रति ते जिह्वा घृतमु- च्चरण्येत्वाहेत्य'थ स्रुचि चतुर्गृहीतं गृहीत्वापबर्हिषश्चतुरः प्रया- जान्यजत्यथाग्नये सोमायेत्याज्यभागाभ्यां चरत्य'थोपस्तीर्य पूर्वा- र्धात्पुरोडाशस्यावद्यन्नाह ॥ १६ ॥ वरुणायानुब्रूहीति ' पूर्वार्धादवदायापरार्धादवद्यत्य'भिघा- १४ रयति ' ^२प्रत्यनक्त्येत्याक्रम्याश्राव्याह^३ वरुणं यजेति ' वषट्कृते जुहोत्य'थोपस्तीर्य सर्वश एव वारुणमवदधदाहाग्नीवरुणाभ्यां स्विष्टकृद्भ्यामनुब्रूहीति ' द्विरभिघारयत्याश्राव्याहाग्नीवरुणौ
^१ Thus HTP Bh. Keś ; सामानि BJ Mantramālā. ^२ F ins. न । ^३ Instead of अत्याक्रम्य (thus TP) B has चाक्रम्य ; F om. the words अत्याक्रम्य ... द्विरभिघारयति ।