बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 32, कुल 774 में से
संदर्भ में पढ़ें[ २।७, ८ । ] बौधायनश्रौतसूत्रम् । ११ पाणिः प्रतिगृह्णात्विति ' हविःपेष्यै प्रयच्छन्नाहासंवपन्ती पिंषाण्यूनि कुरुतादिति ' पिंषन्ति¹ पुरोडाशीया॑नि चर- व्यान्दधति ' यदि चरुं करिष्यन्भवति प्रागधिवपनाच्चरुपुरो- डाशीयान्विभजेरन् ' ॥ ७ ॥ षष्ठः ॥ ५ अथैतानि कपालानि प्रक्षालितानि जघनेन गार्हपत्य- मुपसादयत्यष्टौ दक्षिणत एकादशोत्तरतो ' ऽथ जघनेन गार्ह- पत्यमुपविश्य धृष्टिमादत्ते धृष्टिरसि ब्रह्म यच्छेति ' गार्हपत्य- मभिमन्त्रयते ऽपाग्ने ऽग्निमामादं जहीति ' निष्क्रव्यादग् सेधेति दक्षिणाङ्गारं निरस्यत्य॑थान्यमावर्तयत्या देवयजं वहेति ' तं १० दक्षिणेषां कपालानां मध्यमेनाभ्युपदधाति ध्रुवमसि पृथिवीं दृꣳह्यायुर्दृꣳह प्रजां दृꣳह सजातानस्मै यजमानाय पर्यूहेत्य॑- ङ्गारमधिवर्तयति निर्दग्धꣳ रक्षो निर्दग्धा अरातय इत्य॑थ पूर्वार्धमुपदधाति धर्ममस्यन्तरिक्षं दृꣳह प्राणं दृꣳहापानं दृꣳह सजातानस्मै यजमानाय पर्यूहेत्य॑थापरार्धमुपदधाति १५ धरुणमसि दिवं दृꣳह चक्षुर्दृꣳह श्रोत्रं दृꣳह सजातानस्मै यजमानाय पर्यूहेत्य॑थ दक्षिणार्धमुपदधाति धर्मासि दिशो दृꣳह योनिं दृꣳह प्रजां दृꣳह सजातानस्मै यजमानाय पर्यूहेत्य॑थ पूर्वमुपधिमुपदधाति चित स्थ प्रजांमस्मै रयिमस्मै सजातानस्मै यजमानाय पर्यूहेत्य॑थापरमेवमेव² ' द्वे उत्तरतः
१ Thus only Bh., Sāy., Keś. ; T पिंचन्ति, the other MSS. पिंषन्ति । २ Thus H Sāy. ; एवमेवं F ; एवं J ; एव Be BT.