भारतकोश
बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

Baudhayana Shrautasutra of Taittiriya Samhita with Commentary

आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा

DevanagariHindipublished774 पृष्ठ

पृष्ठ 332, कुल 774 में से

संदर्भ में पढ़ें
पृष्ठ 332

गृहीत्वा दक्षिणे ऽवान्तरशफे हिरण्यं निधाय संपरिस्तीर्याभि- जुहोति जिघर्म्यग्निं मनसा घृतेनेत्यपरं चतुर्गृहीतं गृहीत्वोत्तरे ऽवान्तरशफे हिरण्यं निधाय संपरिस्तीर्यैवाभिजुहोत्या त्वा जिघर्मि वचसा घृतेनेत्यपोद्धृत्य हिरण्यमभिमादाय पदं परि- ५ लिखति परि वाजपतिः कविः परि त्वाग्ने पुरं वयं त्वमग्ने द्युभिरिति तिसृभिः ।' खनति देवस्य त्वा सवितुः प्रसवे ज्योतिष्मन्तं त्वाग्ने सुप्रतीकमिति द्वाभ्या॑मथोत्तरतः पार्श्वतः संभाराणां प्राचीनाग्राणि तृणानि संस्तीर्य तेषूपरि कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमोपस्तृणात्यपां पृष्ठमसीति पुष्करपर्ण- १० माह्ररति ।' तदुप॑रिष्टात्कृष्णाजिने निधायाथैनं संमृशति घर्म च ष्णः संवसायामिति द्वाभ्याम॑पोद्धृत्य पुष्करपर्णमष्टाभि- र्मृदँ हरति ॥ ३ ॥ पुरीष्यो ऽसि विश्वभरा इति ।' तासां चतस्रो गायत्र्यस- तिस्रस्त्रिष्टुभः ।' स पिण्डं पिण्डं वेवर्त्ता हरत्य॑पि वाष्टाभिरेकमेव १५ पिण्डँ हरत्य॑थैतमवटं¹ विश्वलोपेन पूरयित्वाद्भिरुपसृजति सं ते वायुर्मातरिश्वा दधात्तूत्तानायै हृदयं यदिदिक्षिप्तम् । देवानां यश्चरति प्राणथेन तस्मै च देवि वषडस्तु तुभ्यमित्य॑थोपरिष्टा- त्पुष्करपर्णं मृदि निधाय समुच्चित्य कृष्णाजिनस्यान्तान्योक्त्रे- णोपनह्यति सुजातो ज्योतिषा सह घर्म वरूथमासदः २० सुवः । वासो अग्ने विश्वरूपँ संव्ययस्व विभावसो इत्य॑थैन-


१ Thus only M Bhāv.; अथैतमवटं all the other MSS.