बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 350, कुल 774 में से
संदर्भ में पढ़ेंअग्निचयनम् [ १० । २२, २३ । ] २१ आयन्ति ' हस्तपादान्प्रक्षाल्यैतेनैव यथेतमित्य गार्हपत्यमुपतिष्ठन्ते निवेशनः संगमनो वसूनामित्याहवनीयमु हैक उपतिष्ठन्ते ऽयमितो ऽधि गार्हपत्यो भविष्यतीति ' ॥ २२ ॥ षष्ठः ॥ अथ प्रायणीयेन चरति ' प्रायणीयेन चरित्वा पदेन ५ चरति ' पदेन चरित्वा राजानं क्रीत्वोद्यातिथ्यं निर्वपत्या॑ति- थ्येन प्रचर्य प्रथमाभ्यां प्रवर्गापसद्भ्यां प्रचरत्य॑थोपनिष्क्रम्य¹ संप्रैष- माह सुब्रह्मण्य सुब्रह्मण्यामाह्वय चित्वन्व्रतं प्रयच्छतेत्या॑ह्वयति सुब्रह्मण्यः सुब्रह्मण्यां ' चित्वन्व्रतं प्रयच्छति ' स पुच्छादेवाग्रे चतुरः प्रतीचः प्रक्रमान्प्रक्रामति दक्षिणा पञ्चमं ' तत्स्फ्यं १० निदधाति ' स उपरवाणां कालो ' ऽथ महावेद्या उत्तरा- दंसीयाच्छङ्कोर्विद्यन्नेन द्वादश प्रतीचः प्रक्रमान्प्रक्रामत्युदञ्चं त्रयोदशं ' तदाग्नीध्र उपसीदति ' स उत्करस्य कालो ' ऽथो- परवाणां कालात्स्तम्बयजुर्हरत्येतदेव प्रसिद्धं पौरोडाशिकं चित्र्यजुषा तूष्णीं चतुर्थ ' पूर्वं परिग्राहं परिगृह्णाति ' करणं १५ जपत्युद्धन्त्युद्धतादाग्नीध्रस्त्रिर्हरति ' यदाग्नीध्रस्त्रिर्हरत्यथाग्रेण शालां तिष्ठन्संप्रैषमाह वेदिकारा वेदिं कल्पयतेति ' यथा- संप्रैषं ते कुर्वन्त्यथ कार्ष्णाजिन्योरुपानह उपमुञ्चन्ते चिते त्वेत्य- ध्वर्युराचिते त्वेति प्रतिप्रस्थाता मनश्चिते त्वेति ब्रह्मा तपश्चिते त्वेति यजमानश्चिते त्वा चिते त्वेत्येव वा सर्वे ' ऽपि वा २० तूष्णीमेवाथ याचति धनुर्बाणवच्चतुरो ऽश्मन ऐन्द्रीमिष्टकां विभक्तिमुदपात्रं दर्भस्तम्बं दूर्वामाज्यस्थालीꣳ सस्रुवामित्येत- १ The clause अथोपनिष्क्रम्य...प्रयच्छति is not found in M Tr H.