भारतकोश
बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

Baudhayana Shrautasutra of Taittiriya Samhita with Commentary

आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा

DevanagariHindipublished774 पृष्ठ

पृष्ठ 359, कुल 774 में से

संदर्भ में पढ़ें
पृष्ठ 359

Digitized by Madhuban Trust २८ बौधायनश्रौतसूत्रम् । [ १० । २९-३१ । ]

विषुवत्यनुष्टीतमुपदधात्येकादश्या च द्वादश्या च ' तासां बार्ह- स्पत्यं मध्य¹ उपदधाति दिवि श्रयस्वान्तरिक्षे यतस्व पृथिव्या संभव ब्रह्मवर्चसमसि ब्रह्मवर्चसाय त्वेत्यनुष्टीतमुपदधातीति ब्राह्मणं ' तयादेवतं कृत्वा सूददोहसः करोति ' ॥ २९ ॥ अथोत्तरवेदेरावृतोत्तरवेदिमलङ्करोत्यथोत्तरवेद्यामपां पृष्ठ- ५ मसीति पुष्करपर्णमुपदधाति ' तयादेवतं कृत्वा सूददोहसं करोत्यथोत्तरवेद्यामेवोत्तरनिबार्धं रुक्ममुपदधाति ब्रह्म जज्ञा- नमित्यथैनमक्त्या पञ्चगृहीतेन व्याघारयति कृणुष्व पाजः प्रसितिं न पृथ्वीमित्यथ दक्षिणतः प्राञ्चं हिरण्मयं पुरुष- मुपदधाति हिरण्यगर्भः समवर्तताग्र इत्यथैनमभिमृशति द्रप- १० श्चस्कन्देति ' तयादेवतं कृत्वा सूददोहसौ करोत्यथोत्तरतः प्रक्रमवेलायां स्रुचावुपदधात्याज्यस्य पूर्णां कार्ष्मर्यमयीं दध्नः पूर्णामौदुम्बरीं दक्षिणां कार्ष्मर्यमयीमुत्करामौदुम्बरीमियम- सीति कार्ष्मर्यमयीमसावसीत्यौदुम्बरीं मनसैव ' तयादेवतं कृत्वा सूददोहसौ करोत्यथ दक्षिणे प्रल्ललाटे सर्पशिर उप- १५ दधाति नमो अस्तु सर्पेभ्य इति तिसृभिरनुच्छन्दसमपि वा यतउच्चारं जनपदस्य जन्यं भयं मन्यते ' तयादेवतं कृत्वा सूददोहसं करोति ' ॥ ३० ॥ अष्टमः ॥ अथ स्वयमातृण्णां यजुषा करोति ध्रुवासि धरुणामृता विश्वकर्मणा सुकृता । मा त्वा समुद्र उद्वधीन्मा सुपर्णो व्यथ- २०


¹ मध्यत M only.

बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक) · पृष्ठ 359, कुल 774 में से · BharatKosha