बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 361, कुल 774 में से
संदर्भ में पढ़ेंDigitized by Madhuban Trust ९० बौधायनश्रौतसूत्रम् । [ १० । ३२, ३३ । ]
युञ्जा युनज्मीत्या॑षाढां व्यालिखितामुत्तरल॒क्ष्माणमुपदधात्य- षाढासि स॒हमानेत्य॑थ संयान्यान्युपदधात्यग्नेर्यान्त्यसि देवानाम्ने- यान्यसीति॑ तयादेवतं कृत्वा सूददोहसः करोति॑ ॥ ३२ ॥ अथोत्तरेण व्यालिखितामुपविश्य याचति दधि च मधु- मिश्रं कूर्मं च॑ तं दध्ना मधुमिश्रेणाभ्यनक्ति मधु वाता ऋता- ५ यत इति तिसृभिरनुच्छन्दसमथैनमवकाभारेण परिवेष्ट्य पुरस्तात्प्रत्यञ्चमुपदधाति मही द्यौः पृथिवी च नश्चतस्र आशाः प्रचरन्त्वग्नय इति द्वाभ्यामथैनँ शङ्कुभिः परिणिहन्त्यभितो ऽनवसर्पणाय॑ तयादेवतं कृत्वा सूददोहसं करोत्य॑थात्रैव तिष्ठ- न्याचत्यौदुम्बरं चोलूखलमुसलँ सर्वौषधं च॑ तदेतत्प्रादेश- १० मात्रमुलूखलं भवत्यरत्निमात्रं मुसलं॑ तस्मिन्सर्वौषधमववहन्त्यूर्जो भागो ऽस्यूर्जः पवित्रमूर्जन्नधाद्यायेत्य॑थैनदुत्तरतः१ प्रक्रमवेला- यामुपदधाति तद्विष्णोः परमं पदमिति॑ लोकंपृणासुत्तरतो मुसलं करोति॑ तयादेवतं कृत्वा सूददोहसौ करोत्य॑थ मुख्यामुखां याचति॑ तस्यामन्तरवस्त्राविणौ द्वे स्रुवाहुती १५ जुहोत्यग्ने युच्छा हि ये तवेति दक्षिणे बिले जुहोति युच्छा हि देवहूतमानित्युत्तरे॑ ऽथैनामुत्तरतः प्रक्रमवेलायामुप- दधाति ध्रुवासि पृथिवि सहस्व पृतन्यत इति॑ लोकंपृणे उत्तरत इतरे करोति॑ तयादेवतं कृत्वा सूददोहसः करो- त्य॑थैतत्पुरुषशिरो याचति॑ तस्य प्राणेषु हिरण्यशल्काम्प्रत्यस्यति २०
१ Thus U (sec. m.) and Ms (एनत् सर्वौषधेन पूर्णमुलूखलम् Msc.); अथैनम्० all the other MSS. and U (pr. m).
CC-0. Public Domain. Vipin Kumar Collection, Deoband