बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 374, कुल 774 में से
संदर्भ में पढ़ेंत्य॑थ स्तोमभागा उपदधाति रश्मिरसि क्षयाय त्वा क्षयं जिन्वेत्येकत्रिग्ँशतग्ँ सप्तसप्त दिक्षु तिस्रो मध्ये॑ तयादेवतं कृत्वा सूददोहसः करोत्य॑थ नाकसद उपदधाति रा॒ज्ञ्यसि प्राची॑ दिग्वसवस्ते देवा अधिपतय इति पञ्चैकां दिक्ष्वेकां मध्ये॑ तयादेवतं कृत्वा सूददोहसः करोत्य॑थ पञ्चचोडा उपरिष्टा- न्नाकसदामुपदधात्ययं पुरो हरिकेशः सूर्यरश्मिरिति पञ्चैकां दिक्ष्वेकां मध्ये॑ तासां पश्चात्प्राचीमुत्तमामुपदधात्य॑ यं यज- मानो द्वेष्टि तं मनसा ध्यायति॑ तयादेवतं कृत्वा सूददोहसः करोत्य॑थ छन्दाग्ँस्युपदधात्य॒ग्निर्मूर्धा दिव इत्येतस्यानुवाकस्य तिस्रस्तिस्रो यथा॒म्नातं॑ गायत्र्यः पुरस्तादुपदधाति त्रिष्टुभो दक्षिणतो जगत्यः पश्चादनुष्टुभ उत्तरतो बृहतीर्मध्य॑ उष्णहः पुरस्तादुपदधाति पङ्क्तीर्दक्षिणतो ऽक्षरपङ्क्तीः पश्चा- दतिच्छन्दसमुत्तरतो द्विपदा मध्ये॑ ऽपि वातिच्छन्दसं मध्ये द्विपदा उत्तरतस्तयादेवतं कृत्वा सूददोहसः करोत्य॑थ दक्षिणे ऽग्ँसे कृत्तिका उपदधात्यम्बा नामासि दुला नामासीति सप्त गुल्मकृतास्तयादेवतं कृत्वा सूददोहसः करोत्य॑थ वृष्टिसनीरुप- दधाति पुरोवातसनिरस्यभ्रसनिरसीति पञ्चैकां दिक्ष्वेकां मध्ये॑ ऽनुपरिहारग्ँ सादयतीति ब्राह्मणं॑ तयादेवतं कृत्वा सूददोहसः करोत्य॑थादित्येष्टका उपदधाति सलि॒लाय त्वा सग॑राय वेत्यष्टौ द्वेद्वे दिक्षु न मध्ये॑ तयादेवतं कृत्वा सूददोहसः करोत्य॑थ घृतेष्टका उपदधात्यृचे त्वा रुचे त्वेति पञ्चैकां दिक्ष्वेकां मध्ये॑ ऽनुपरिहारग्ँ सादयतीति ब्राह्मणं॑