भारतकोश
बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

Baudhayana Shrautasutra of Taittiriya Samhita with Commentary

आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा

DevanagariHindipublished774 पृष्ठ

पृष्ठ 376, कुल 774 में से

संदर्भ में पढ़ें
पृष्ठ 376

वीर्यायेति पञ्चैकां दिक्ष्वेकां मध्ये॑ तयादेवतं कृत्वा सूद- दोहसः करोत्य॑थ राष्ट्रभृत उपदधात्यग्रे यन्नखिन्नग्रसेसम- र्पयेति चतस्र एकैकां दिक्षु न मध्ये॑ तयादेवतं कृत्वा सूद- दोहसः करोत्य॑थ दक्षिणे ऽंसे पौर्णमासीमुपदधाति पूर्णा पश्चादिति॑ तयादेवतं कृत्वा सूददोहसं करोत्य॑थ दक्षिण एवाꣳसे नक्षत्रेष्टका उपदधाति कृत्तिका नक्षत्रमग्निर्देवतैत्य॑थैना रोचयत्यग्ने रुच स्य प्रजापतेर्धातुः सोमस्यर्चे त्वा रुचे त्वा द्युते त्वा भासे त्वा ज्योतिषे त्वेत्येतं नक्षत्रपथꣳ रोहिणीप्रभृत्या विशाखाभ्यामायातयति॑१ दक्षिणादꣳसादक्षिणाꣳ श्रोणिमभ्या- यातयत्य॑२ पुच्छसन्धौ चात्मसन्धौ चामावास्यामुपदधाति यत्ते देवा अदधुर्भागधेयमित्येतं नक्षत्रपथमनूराधाप्रभृत्यापभर- णीभ्य आयातयत्यु॑त्तरायै श्रोणेरुत्तरमꣳसमभ्यायातयत्युत्तर३ एवाꣳसे पौर्णमासीमुपदधाति पूर्णा पश्चादिति॑ सꣳस्पृष्टा उप- दधातीति ब्राह्मणं॑ नक्षत्रेष्टकाभिस्चितीराप्यते॑ तयादेवतं कृत्वा सूददोहसः करोत्य॑थावद्रुत्य कृष्णमृगमभिमृश्य तनु- पुरीषमुपदधाति पृष्टो दिवीति॑ तयादेवतं कृत्वा सूददोहसं करोत्य॑थ४ षष्ठीं चितिं चिनुते संयञ्च प्रचेताश्चेति पञ्चैकां दिक्ष्वेकां मध्ये॑ तयादेवतं कृत्वा सूददोहसः करोत्य॑थाग्निꣳ १ Thus M Tr U; • शाखाभ्यां खायात • Be B; • शाखाभ्यामभ्यायातः H. २ श्रोणीम• some of the MSS. ३ Thus corrected; all MSS.: श्रोणेरोत्तरम्•। ४ अथ i. s. of च BH.