बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 378, कुल 774 में से
संदर्भ में पढ़ेंरेतः प्रजनयत्विति ¹ तयादेवतं कृत्वा सूददोहसः करोत्य॑थोत्त- रतः प्रक्रमवेलायां विकर्णीमुपदधाति प्रोथदश्वो न यवसे ऽविष्यन्निति ' तयादेवतं कृत्वा सूददोहसं करोत्य॑थ लोकंपृणा उपदधाति लोकं पृण छिद्रं पृणेत्य॑थ' चितिक्लृप्त्याभिमृशति ५ चित्तिमचित्तिं चिनवद्विद्वानित्यो॑ग्नेय्या पङ्क्त्यैतां चिति- मभिमृश्य द्वाभ्यामवद्रवति वाङ् म आसन्प्राणदा इत्य॑थापराह्नि- काभ्यां प्रवर्ग्योपसद्भ्यां प्रचरत्येतावदेवैतदहः कर्म क्रियते ' वस- न्येताᳵ रात्रीम् ' ॥ ४६ ॥ पञ्चदशः ॥ अथैतस्मिन्नेव नवमे ऽह्नि दशमायाह्न उपकल्पयते सहस्रᳵ १० हिरण्यशल्कानूर्ध्वं चिभ्यो ऽपरिमितानित्येक आहुस्ते यदि सहस्रं भवन्ति द्वे द्वे शते पञ्चनाडीख्योते² भवतो ' ऽथ दशमे ऽह्युदित आदित्ये प्रवर्ग्योपसद्भ्यां प्रचरति ' समानं पुरीष- स्योपधानम॑थ पात्र्यामप आनीय हिरण्यशल्कान्संप्रकीर्य द्वाभ्यां- द्वाभ्याᳵ शताभ्यां प्रोक्षति सहस्रस्य प्रमा असौति यत्प्राक् १५ स्वयमातृण्णायै भवति सहस्रस्य प्रतिमा असौति यद्दक्षिणा स्वयमातृण्णायै भवति सहस्रस्य विमा असौति यत्प्रत्यक् स्वय- मातृण्णायै भवति सहस्रस्योन्मा असौति यदुदक् स्वयमातृण्णायै भवत्य॑थ मध्यं द्वाभ्याᳵ शताभ्यां प्रोक्षति साहस्त्रो ऽसि सहस्राय त्वेत्य॑थोत्तरे श्रोण्यन्ते तिष्ठन्निष्टका धेनूः कुरुत इमा मे अग्न १ षण् MTr; षट् the other MSS. २ पञ्च all; ॰नाडीद्योते Tr UH Ms; ॰नाडीख्येते BeM; ॰नाडौद्योते B; Bhav.: पचनाडौष् पञ्चपञ्चप्रसुपिरेषु निचिते[षु] भवतः ।