बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 383, कुल 774 में से
संदर्भ में पढ़ेंच्छतेत्या'ह्वयति सुब्रह्मण्याः सुब्रह्मण्याम'र्धस्तनव्रतं प्रयच्छत्ये'थादत्ते पञ्चगृहीतमाज्यं दधि मधुमिश्रं गुल्गुष्ठिमवकाभारमित्ये'त- त्समादायाधिद्रुत्याक्ष्णया पञ्चगृहीतेन स्वयमातृण्णां१ व्याघार- यति नृषदे वड्भृषदे वड्सदने वड् बर्हिषदे वट् सुवर्विदे वडित्येतैयैव स्रुचोपघातं दध्ना मधुमिश्रेण गन्धर्वाहुती- ५ र्जुहोति ' हेतयो नाम स्थ तेषां वः पुरो गृहा इति पश्चा- दासीनः पूर्वे विले जुहोति ' निक्षिम्पा नाम स्थ तेषां वो दक्षिणा गृहा इत्युत्तरत आसीनो दक्षिणे विले जुहोति ' वज्रिणो नाम स्थ तेषां वः पश्चाद्गृहा इति पुरस्तादासीनो ऽपरे विले जुहोत्य'वस्यावानो नाम स्थ तेषां व उत्तराद्गृहा १० इति दक्षिणत आसीन उत्तरे विले जुहोत्य'थैतेनैव यथेत- मेत्य यत्रैव प्रथममहौषीत्तद्वे जुहोत्यधिपतयो नाम स्थ क्रथा नाम स्थेत्य'थाह प्रतिप्रस्थातरिममग्निं कूर्मपृषन्तं कुर्विति ' तग्ँ स कूर्मपृषन्तं करोति ' नाप्रोक्षितमधितिष्ठत्ये'थ गुल्गुष्ठिमादाय दध्ना मधुमिश्रेणावोक्षति ये देवा देवानां ये देवा देवेष्वधि १५ देवत्वमायन्निति ॥ ५० ॥ द्वाभ्यां पुरस्तात्ताभ्यां दक्षिणतस्ताभ्यां पश्चात्ताभ्यामुत्तरतो ' ऽनुपरिचारमवोक्षतौति२ ब्राह्मणम'थैनमवकाभारेण प्रतिच्छाद्य गोप्तारग्ँ समादिश्यावद्रुत्यापराह्विकाभ्यां प्रवर्ग्योपसद्भ्यां प्रचर- त्य'थोपनिष्क्रम्य संप्रेषमाह सुब्रह्मण्य सुब्रह्मण्यामाह्वयाग्नीधैश्वा- २०
१ Thus M Tr UH; ॰तृष्णा the other MSS. २ नुपरीढारम० M, but cp. TS. v. 4.5.3.