बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 385, कुल 774 में से
संदर्भ में पढ़ें५४ बौधायनश्रौतसूत्रम् । [ १० । ५१, ५२ । ] ब्राह्मणं ' तासां द्वे परिगृह्यवती भवतो ' ऽथ विषुवत्याग्नीध्रस्य काले पृश्निमश्मानं निदधाति विमान एष दिव उच्चा समुद्र इति द्वाभ्यामथ चतसृभिरा पुच्छादेतीन्द्रं विश्वा अवीवृधन्निति ' धारयन्त्येतमग्निमथैनग्ँ संचितमाज्यप्रोक्षणेण प्रोक्षति ॥ ५१ ॥ ५ वसवस्त्वा रुद्रैः पुरस्तात्पान्तित्विति पुरस्तात्पितरस्त्वा यम- राजानः पितृभिर्दक्षिणतः पान्तित्विति दक्षिणत आदित्यास्त्वा विश्वैर्देवैः पश्चात्पान्तित्विति पश्चाद्युतानस्त्वा मारुतो मरुद्भिरुत्त- रतः पान्तित्वित्युत्तरतो देवास्त्वेन्द्रज्येष्ठा वरुणराजानो ऽधस्ता- च्चोपरिष्टाच्च पान्तित्वित्युपरिष्टादथैतेनैव सहाग्निनाधिद्रवति १० प्राचीमनु प्रदिशं प्रेहि विद्वाञ्क्रमध्वमग्निना नाकमुख्यं पृथिव्या अहमदुन्तरिक्षमारुहग्ँ सुवर्यन्तो नापेक्षन्त ऽग्ने प्रेहि प्रथमो देवयतामिति पञ्चभिर्धारयन्त्येतमग्निमथ दध्नः पूर्णामौदुम्बरीग्ँ स्वयमातृण्णायां जुहोति ' नक्तोषासेति पुरोऽनुवाक्यामनूच्याग्ने सहस्राक्षेति जुहोत्य'थ प्रदक्षिणमावृत्यैनं प्रतिष्ठापयति सुपर्णो १५ ऽसि गरुत्मानिति ' तिसृभिः सादयतीति ब्राह्मणमथैनं विस्रस्याङ्कतिषाहं कृत्वाध्वराङ्कतिभिरभिजुहोत्यग्निर्यज्ञं नयतु प्रजानन्नैनं यज्ञहनो विदन्देवेभ्यः प्रब्रूताद्यज्ञं प्रप्र यज्ञपतिं तिर स्वाहा वायुर्यज्ञं नयतु प्रजानन्सूर्यो यज्ञं नयतु प्रजा- नन्यज्ञो यज्ञं नयतु प्रजानन्नैनं यज्ञहनो विदन्देवेभ्यः प्रब्रूता- २० द्यज्ञं प्रप्र यज्ञपतिं तिर स्वाहेत्यावद्रुत्याग्निवत्युत्तरं परिग्राहं परिगृह्य योपयित्वा तिर्यञ्चग्ँ स्फ्यग्ँ स्तब्ध्वा संप्रैषमाह