भारतकोश
बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

Baudhayana Shrautasutra of Taittiriya Samhita with Commentary

आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा

DevanagariHindipublished774 पृष्ठ

पृष्ठ 389, कुल 774 में से

संदर्भ में पढ़ें
पृष्ठ 389

Digitized by Madhuban Trust ५८ बौधायनश्रौतसूत्रम्। [ १० । ५५, ५६ । ] पशुपुरोडाशं निर्वपति ।' तमनुवर्तन्ते ऽष्टौ देवसुवाग् हवीग्- ष्यग्नये गृहपतय इत्येतानि ।' तानि नानावघ्नन्ति ।' नाना श्रपयन्ति ।' नानाधान्यानि भवन्ति ।' प्रैषवान्पशुपुरोडाशो ऽनुब्रूहि यजेतीतरेषाग् हविषाग् ।' स यत्र वारुणस्यावद्यन्नाह वरुणाय धर्मपतये ऽनुब्रूहीति तदुपभृति स्विष्टकृते सर्वेषाग् ५ सकृत्सकृदुत्तरार्धादवद्यति ।' द्विरभिघारयति ।' न प्रत्यनक्त्य- त्याक्रम्याश्राव्याह वरुणं धर्मपतिं यजेति ।' वषट्कृते जुहोत्यथ वै भवतोष्टो वरुणो भवत्यनिष्टः स्विष्टकृदथास्य ब्रह्मा हस्तं गृह्णा- तीति ।' स यद्येष्टो वरुणो भवत्यनिष्टः स्विष्टकृदथास्य ब्रह्मा हस्तं गृह्णाति२ ॥ ५५ ॥ १० सविता त्वा प्रसवानाग् सुवतामग्निर्गृहपतीनाग् सोमो वनस्पतीनाग् रुद्रः पशूनां बृहस्पतिर्वाचामिन्द्रो ज्येष्ठानां मित्रः सत्यानां वरुणो धर्मपतीनामित्येतदेव सर्वं भवति ये देवा देवसुव स्थ त इममामुष्यायणममित्राय सुवध्वं महते क्षत्राय महत आधिपत्याय महते जानराज्यायेत्यथैनं यज- १५ मानायतने तिष्ठन्तं प्राहैष वो ऽमी३ राजेति येषाग् श्रेष्ठौ भवति ।' सोमो ऽस्माकं ब्राह्मणानां राजेतीतरे प्रत्याहुरथ भूर्भुवः सुवरिति वाचं विसृजते ।' द्वाभ्यां मुखं विमृष्टे प्रति १ Thus MU Be; नानावघ्नति H; नानावभ्रंति B; नानायिघ्नन्ति Ms; तानि नाना पृथक हविघ्नन्ति (sic) Msc. २ This clause is omitted in most of the MSS. ३ भरता (as TS. i. 8.10. d) Tr only, i. s. of मी । CC-0. Public Domain. Vipin Kumar Collection, Deoband