बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 399, कुल 774 में से
संदर्भ में पढ़ें६८ बौद्धायनश्रौतसूत्रम् । [११ । ३, ४ ।] ¹श्विनाद्ग्रहादाश्विनं ग्रहं गृहीत्वा षड्रशना आदाय यूपमभ्येति² । खर्वन्तं यूपमुत्सृज्याथैतान्पशूनुपाकरोत्याग्नेयमैन्द्राग्नमैन्द्रं मारुतौ गोवशाꣳ सप्तदश प्राजापत्याञ्छामानेकरूपान्सारस्वतीमन्ततो॑ ऽथ निर्मन्थ्यस्यावृता निर्मन्थ्येन चरति॑ प्रहृत्याभिजुत्याथैता- न्नानादेवत्यान्पशून्पृथग्द्विगुणाभिरभिधाय पृथक् त्रिगुणासु ५ नियुनक्त्यथैतान्समानदेवत्यान्पशून्पृथग्द्विगुणाभिरभिधायैकस्यां यूप्यायां नियुनक्त्यपि वा पशौ पशुं प्रसजति³ । सारस्वती- मन्ततो नियुज्याथैनान्प्रोक्ष्य निपाव्योपोत्थ्योदूह्य प्रोक्षणी- धानम् ॥ ३ ॥ अथैष्मात्समिधमाददान आहाग्नये समिध्यमानायानुब्रूही- १० त्यभ्यादधातीध्मं॑ परि समिधश् छिनत्ति॑ वेदेनोपवाजय- त्यनूक्तासु सामिधेनीषु स्रुवेणाघारमाघारयति॑ संमृष्टे स्रुग्भ्यामुत्तरमेयाꣳस्पर्शयन्स्रुचावुदङ्ङत्याक्रम्य जुह्वा पशून्समज्य सादयित्वा स्रुचौ प्रवरं प्रवृणीते॑ प्रषिद्धमृत्विजो वृणीते॑ सीदति होता॑ प्रसवमाकाङ्क्षति॑ प्रसूतः स्रुचावादायात्या- १५ क्रम्याश्राव्याह समिद्धः प्रेष्येति॑ वषट्कृते जुहोति प्रेष्य प्रेष्येति चतुर्थाष्टमयोः समानयमानो ऽष्टमे सर्वꣳ समानयते॑ परि स्वाहाकृतीभ्यः सꣳस्रावश् छिनत्ति॑ दश प्रयाजानिष्ट्वोदङ्ङत्या- १ Om. M Tr Be U. २ Thus M Tr B Be Keś.; अभ्येति Bell UFH. ३ Thus Bell F; प्रसंजति Tr; प्रतिसजति U; प्रसजाति H; प्रसंजयति M; नियु॒नक्ति Be.