बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 405, कुल 774 में से
संदर्भ में पढ़ेंअथ याचति नैवारग् सप्तदशशरावम् ' स एष चौरे शृतो भवति ' तेन चरति¹ बृहस्पतये ऽनुब्रूहि बृहस्पतिं यजेति ' तमनिष्टस्विष्टकृतमपिधाय प्रज्ञातं निदधात्य॑थास्यैतत्पुरस्ता- देवौदुम्बरे द्रोणे सर्वौषधं दध्नाज्येन समुद्वायुतं भवति ' तस्यौ- दुम्बरेण स्रुवेणोपघातग् सप्तान्नहोमाञ्जुहोति वाजस्येमं प्रसवः ५ सुषुवे अग्रे इत्य॑भिषेकाय परेकं परिश्रित्यैनमपिधाय प्रज्ञातं निदधात्य॑थ पुरस्तादभिषेकस्य षट् पार्थानि जुहोत्यग्नये स्वाहा सोमाय स्वाहेत्य॑थ यजमानायतने कृष्णाजिनं प्राचीनग्रीव- मुत्तरलोमोपस्तृणाति ' तद्यजमानं प्राञ्चमुपवेश्य सुवर्णरज- ताभ्याग् रुक्माभ्यां पर्युपास्य सर्वौषधेन पुरस्तात्प्रत्यङ्मुखमभिषि- १० ञ्चति ' शीर्षतो ऽभिषिञ्चत्या मुखादन्ववस्त्रावयति