बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 419, कुल 774 में से
संदर्भ में पढ़ेंयवाग्रयणेनाथ चतुर्र्षु मासेषु पर्यवेतेषु संतन्वेष्ट्येष्ट्वा¹ वरुणप्रघा- सहविर्भरिष्ट्वा पौर्णमासवैमृधाभ्यामिष्ट्वा प्रसिद्धं निर्वर्तयते । ऽथ श्वो भूते संतनीभ्यामेव प्रतिपद्यते । स एवमेव संतनीभ्या- महरहर्विपर्यासं यजमानो ऽपरांश्चतुरो मास एति काम- मिष्ट्वा कामं पशुबन्धेन कामँ श्यामाकाग्रयणेनाथ चतुर्र्षु मासेषु पर्यवेतेषु संतन्वेष्ट्येष्ट्वा साकमेधहविर्भरिष्ट्वा पौर्णमास- वैमृधाभ्यामिष्ट्वा प्रसिद्धं निर्वर्तयते । ऽथ श्वो भूते संतनीभ्या- मेव प्रतिपद्यते । स एवमेव संतनीभ्यामहर्हविपर्यासं यजमानो ऽपरांश्चतुरो मास एति काममिष्ट्वा कामं पशुबन्धेन कामं व्रीह्याग्रयणेनाथ चतुर्र्षु मासेषु पर्यवेतेषु संतन्वेष्ट्येष्ट्वा शुनासी- रीयहविर्भरिष्ट्वा पौर्णमासवैमृधाभ्यामिष्ट्वा प्रसिद्धं निर्वर्तयते । ऽथ श्वो भूते संतनीभ्यामेव प्रतिपद्यते । स एवमेव संतनीभ्या- महरहर्विपर्यासं यजमानः सप्ताहान्येति काममिष्ट्वा कामं पशुबन्धेनाथाष्टमे ऽह्नीन्द्रतुरीयमाग्नेयमष्टाकपालं निर्वपति रौद्रं गावीधुकं चरुमैन्द्रं दधि वारुणं यवमयं चरुमन्वाहार्य- मासाद्य वह्नीं धेनुं ददाति ॥ ३ ॥ अथ तदानीमेव पञ्चेध्मीयेन प्रतिपद्यते । पञ्चधाङ्गारा- न्निरूह्य पञ्चेष्मान्ब्यादधाति पर्णमयं पुरस्तान्नैयग्रोधं दक्षिणत आश्वत्थं पश्चादौदुम्बरमुत्तरतः प्राचं मध्ये । ऽथैनानाज्येन व्याघारयति ये देवाः पुरःसदो ऽग्निनेत्रा रक्षोहणस्ते नः पान्तु
¹ Thus here and infra MT Be 11 ; संतन्वेष्ट्या B Bc.