भारतकोश
बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

Baudhayana Shrautasutra of Taittiriya Samhita with Commentary

आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा

DevanagariHindipublished774 पृष्ठ

पृष्ठ 448, कुल 774 में से

संदर्भ में पढ़ें
पृष्ठ 448

[ १२ । २० । ] बौधायनश्रौतसूत्रम् । ११७ धृत्य प्रतीचीनस्तोमाय केशवपनीयायातिरात्राय दीक्षते । तस्यापरिमिता दीक्षा द्वादशोपसदः । स तथा राजानं क्रीणाति यथा मन्यते पौर्णमास्यै मे यजनीये १ ऽहन्सुत्या संपत्स्यत इति । तस्य तथा संपद्यते । प्रसिद्धेन कर्मणोपवस- थादेत्यथ २ वसतीवरीः परिहृत्य पयाꣳसि विशिष्योपवसत्थे- थातो महारात्र एव बुध्यन्ते । प्रातराज्यानि गृहीत्वा राजा- नमुपावहृत्य प्रातरनुवाकमुपाकरोति । परिहिते प्रातरनुवाके ऽपो ऽच्छैत्यद्भिरुद्वैत्यतिरात्रं ३ ऋतुमुपैति । प्रसिद्धो ऽभिषवः । प्रसिद्धं ग्रहा गृह्यन्ते । समानं कर्मावभृथात्प्रसिद्धो ऽवभृथ । उदयनीययेष्ट्वा मैत्रावरुणीं वशामुपाकरोति । तस्यै प्रसिद्धं वपया चरित्वा दक्षिणे वेद्यन्ते यानि कानि च लोमानि ४ वापयते । संतिष्ठत एष प्रतीचीनस्तोमः केशवपनीयो ऽतिरात्रः सहस्रदक्षिण उदवसानीयान्तो । ऽथ मध्यमाꣳ शालामध्यव- साय मथित्वाग्नीन्विहृत्य व्युष्टये द्विरात्राय दीक्षते । तस्या- परिमिता दीक्षा द्वादशोपसदः । स तथा राजानं क्रीणाति यथा मन्यते द्विरात्रस्य मे ५ सतो ५ ऽमावास्याया ५ उपवसथीये ५ १ Thus U Be (sec. m.); यज्ञीये Be (pr. m.) B; यज्ञिये M; Bo 11 T om. the passage. २ ॰णौपवस॰ M Be. ३ Thus M Be 11 T; •द्भिरुदेत्यातिरात्रं Be BU. ४ तानि ins. M. ५ Thus T Be 11 (only ॰वास्यायै); मे before सतो om. M, but this MS.: मावास्यायै म उप॰; Be BU give मे before सतो and मा before उप॰, reading ॰वास्यायै।

बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक) · पृष्ठ 448, कुल 774 में से · BharatKosha