बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 456, कुल 774 में से
संदर्भ में पढ़ें[ १३ । ८ - १० । ] बौधायनश्रौतसूत्रम् । १२५ तस्या एता भवन्त्यग्निर्मूर्धा भुवो वैश्वानरो न ऊत्या त्वमग्ने शोचिषा शोशुचान इति॑ । वैश्वानरं द्वादशकपालं निर्वपेन्मा- रुतᳪ सप्तकपालं ग्रामकाम इत्यथ वै भवत्याहवनीये वैश्वा- नरमधिश्रयति गार्हपत्ये मारुतम॑नूचमान आसादयतीति॑ । ५ काले प्रत्यञ्चं वैश्वानरमासादयत्य॑नूचमानासु सामिधेनीषु मारुतं॑ । तस्य एता भवन्ति वैश्वानरो न ऊत्या पृष्टो दिवि मरुतो यद्ध वो दिवो या वः शर्मेति॑ ॥ ८ ॥ आदित्यं चरुं निर्वपेत्संग्राममुपप्रयास्यन्निति॑ । तस्या एते भवतो ऽदितिर्न उरुष्यतु महीम् पु मातरमिति॑ । वैश्वानरं १० द्वादशकपालं निर्वपेदायतनं गत्वेति॑ । तस्या एते भवतो वैश्वा- नरो न ऊत्यास्माकमग्ने मघवत्सु धारयेति॑ । वैश्वानरं द्वादश- कपालं निर्वपेद्दिधिषाणयोरन्नं जग्ध्वेति॑ । तस्या एते भवतो वैश्वानरो न ऊत्या त्वावानमिति॑ । वैश्वानरं द्वादशकपालं निर्व- पेत्समानयोः पूर्वो ऽभिद्रुह्येति॑ । तस्या एते एव भवतो॑ । १५ वैश्वानरं द्वादशकपालं निर्वपेद्दिवं प्रतिगृह्येति॑ । तस्या एते भवतो वैश्वानरो न ऊत्या त्वमग्ने शोचिषा शोशुचान इति॑ । वैश्वानरं द्वादशकपालं निर्वपेदुभयादत्प्रतिगृह्याश्वं वा पुरुषं वेति॑ । तस्या एते एव भवतो॑ । वैश्वानरं द्वादशकपालं निर्व- पेत्सनिमेष्यन्निति॑ । तस्या एते भवतो वैश्वानरो न ऊत्या २० वैश्वानरस्य सुमतौ स्यामेति॑ ॥ ९ ॥ अथ वै भवति यो वै संवत्सरं प्रयुज्य न विमुञ्चत्यप्रति- ष्ठानो वै स भवत्यैतमेव वैश्वानरं पुनरागत्य निर्वपेदिति॑ ।