बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 466, कुल 774 में से
संदर्भ में पढ़ें[ १३ : २३, २४ । ] बौधायनश्रौतसूत्रम् । १३५
भवन्ति स प्रत्नवद्भि काव्या हिरण्यपाणिमूतये वाममद्य सवितर्वरेण्येत्य पर्वतानाᳵ स्तोमाꣳस्त्वा विचारिणीत्यन्वाहार्य- मासाद्य हिरण्यं ददात्ये'तामेव निर्वपेद्धिरण्यं विन्देति ' तस्या एता एव भवन्त्ये'तामेव निर्वपेद्यस्य हिरण्यं नश्येदिति ' तस्या ५ एता एव भवन्ति ' ॥ २४ ॥ यः सोमवामी स्यात्तस्मा एतᳵ सोमेन्द्रᳵ श्यामाकं चरुं निर्वपेदिति ' १तस्या एते भवत ऋदूदरेणापामन्त्युरिति ' सोमवामी वा अन्यो भवत्यन्यः सोमातिपवितो भवति ' यः सोमातिपवितः स्यात्तस्मा एतᳵ सोमेन्द्रᳵ श्यामाकं चरुं १० निर्वपेदिति१ ' तस्या एते भवतः प्र सुवानः सबाधस्त इत्यग्नये दात्रे पुरोडाशमष्टाकपालं निर्वपेदिन्द्राय प्रदात्रे पुरोडाशमेका- दशकपालं पशुकाम इत्ये'तयेष्ट्या यक्ष्यमाण उपकल्पयते दधि मधु घृतमपो यवानित्य'थ देवस्य त्वा सवितुः प्रसव इति प्रतिपदं कृत्वाग्नये दात्रे जुष्टं निर्वपामीति चतुरो मुष्टीन्व्रीहीणां १५ निर्वपत्ये'तामेव प्रतिपदं कृत्वेन्द्राय प्रदात्रे जुष्टं निर्वपामीति चतुर एव व्रीहीणामे'तामेव प्रतिपदं कृत्वा प्रजापतये जुष्टं निर्वपामीति चतुरो यवानां ' तेषां व्रीहिष्वेव हविष्कृतमुद्वा- दयत्यु'पोद्यच्छन्ते यवान्हविष्कृता वाचं विसृजते ' समानं
१ The passage marked between १ ... १ is not found in M Be BU. In the words as handed down by Be 8, I inserted अन्यो (l. 8, first time) and तस्मा (l. 9) and changed अन्यं (l. 8, second time) into अन्यः । D: सोमवामौ चोन्यो भवत्यन्यं विदुः सोमातिपवितः (sic)