बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 469, कुल 774 में से
संदर्भ में पढ़ेंभवति जायमानो यमादित्या अँशुमाप्याययन्तीति ' यं कामयेतान्नादः स्यादिति तस्मा एतं त्रिधातुं निर्वपेदिन्द्राय राज्ञे पुरोडाशमेकादशकपालमिन्द्रायाधिराजायेन्द्राय स्वराज्ञ इत्य॑थ देवस्य त्वा सवितुः प्रसव इति प्रतिपदं कृत्वेन्द्राय राज्ञे जुष्टं निर्वपामीति चतुरो मुष्टीन्व्रीहीणां निर्वपत्येतामेव ५ प्रतिपदं कृत्वेन्द्रायाधिराजायेन्द्राय स्वराज्ञ इति चतुरश्चतुरो मुष्टीनेकेकस्यै देवतायै ' हविष्कृ॒ता वाचं विसृजते ' समानं कर्माधिवपनाद॑ध्यूष्य गार्हपत्य एकादशोत्तानानि कपालान्युप- दधात्य॑थ वै भवत्युत्तानेषु कपालेष्वधिश्रयत्ययातयामत्वाय ' त्रयः पुरोडाशा भवन्ति ' त्रय इमे लोका ' एषां लोकाना- १० माप्यै ' उत्तरउत्तरो ज्यायान्भवतीति ' स उत्तरमुत्तरमेव [L1