बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 47, कुल 774 में से
संदर्भ में पढ़ेंवयं पूर्णमासं यजामहे । स नो दोहताँ सुवीर्यँ रायस्पोषँ सहस्रिणम् । प्राणाय सुराधसे पूर्णमासाय स्वाहेति पौर्णमा- स्याम॑मावास्या सुभगा सुशेवा धेनुरिव भूय आप्यायमाना । सा नो दोहताँ सुवीर्यँ रायस्पोषँ सहस्रिणम् । अपानाय सुराधसे ऽमावास्यायै स्वाहेत्यमावास्यायामेत्याक्रम्याश्राव्याहाग्निँ ५ स्विष्टकृतं यजेति॑ वषट्कृत उत्तरार्धपूर्वार्धे ऽतिहाय पूर्वा आहुतीर्जुहोत्य॑थैतन्नेक्षणमाहवनीये ऽनुप्रहरत्य॑थैनत्स्रावेणा- भिजुहोत्य॑थोदङ्ङत्याक्रम्य जुह्वामप आनीय संक्षालनमन्तःपरिधि निनयति वैश्वानरे हविरिदं जुहोमि साहस्त्रमुत्सँ शतधारमे- तम् । स नः पितरं पितामहं प्रपितामहँ सुवर्गं लोके गच्छतु १० पिन्वमानँ स्वधा नम इति॑ निर्णिज्य स्रुचं निष्ट्याद्भिः पूर- यित्वा बहिःपरिधि निनयतीमँ समुद्रँ शतधारमुत्सं व्यच्य- मानं भुवनस्य मध्ये । घृतं दुहानामतिदितिं जनायाग्ने मा हिँसीः परमे व्योमन्नित्य॑थैतदौपभृतमाज्यँ सर्वश एव जुह्वाँ समान- यते॑ ऽथ यथायतनँ स्रुचौ सादयित्वा प्राशित्रमवद्यति दक्षि- १५ णस्य पुरोडाशस्योत्तरार्धाद्यवमात्रमज्यायौ यवमात्रादाव्यादात्स्वे- द्यतामिदम् । मा रूपमापद्यज्ञस्य शुद्धँ स्विष्टमिदँ हवि- रित्य॑थैनत्स्रुवदण्डेनाभिघार्य जघनेन प्रणीताः सादयित्वाद्भिः सुवदण्डँ सँस्पर्श्यावदधाति १ । ॥ १७ ॥ चतुर्दशः ॥ अथ कँसं वा चमसं वेडोपह्वानं याचति॑ तमन्तर्वेदि निधाय २० तस्मिन्नुपस्तीर्य दक्षिणस्य पुरोडाशस्य दक्षिणाधार्त्प्ररुज्यावद- १ Thus BH Sāy., संस्पृश्य JFT Be.