बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 471, कुल 774 में से
संदर्भ में पढ़ें१४० बौधायनश्रौतसूत्रम् । [ १३ । ३०, ३१ । ] स्यात्तस्मा एतामिष्टिं निर्वपेदग्नये भ्राजस्वते पुरोडाशमष्टा- कपालꣳ सौर्यं चरुमग्नये भ्राजस्वते पुरोडाशमष्टाकपालमिति ' तस्या एते भवत्युदग्ने शुचयस्तव वि ज्योतिषेादु त्यं चित्रमुदग्ने शुचयस्तव वि ज्योतिषेत्युपहूतायामिडायामनाहितमग्नीधे भवत्य॑थ यजमानाय त्रीन्पिण्डान्प्रयच्छत्यु॑दु त्यं जातवेदसं सप्त ५ त्वा हरितो रथे चित्रं देवानामुदगादनीकमिति पिण्डान्प्रय- च्छति ' चक्षुरेवास्मै प्रयच्छति ' यदेव तस्य तदिति ब्राह्मणं ' वैश्वदेवीꣳ सांग्रहणीं निर्वपेद्ग्रामकाम इति ' वैश्वदेवं चरुꣳ संगृह्णन्न इव श्रपयन्त्य॑थ ध्रुवो ऽसि ध्रुवो ऽहꣳ सजातेषु भूया- समिति परिधीनन्परिदधाति ' तस्या एते भवतो विश्वे देवा १०