भारतकोश
बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

Baudhayana Shrautasutra of Taittiriya Samhita with Commentary

आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा

DevanagariHindipublished774 पृष्ठ

पृष्ठ 475, कुल 774 में से

संदर्भ में पढ़ें
पृष्ठ 475

यजेताग्नये प्रवते पुरोडाशमष्टाकपालं निर्वपेदग्नये विबाधवते ऽग्नये प्रतीकवत इति । तस्या एता भवन्ति प्रप्रायमग्निः प्र ते यक्षि प्र त इयर्मि मन्म भुवो वि पाजसा वि ज्योतिषा ष त्वमग्ने प्रतीकेन तँ् सुप्रतीकँ् सुदृशँ् स्वञ्चमिति । यो भ्रातृव्यवान्स्यात्स स्पर्धमान एतयेष्ट्या यजेतेन्द्रायँ्‌होमुचे ५ पुरोडाशमेकादशकपालं निर्वपेदिन्द्राय वैमृधायेन्द्रायेन्द्रियावत इत्येष वै भवति त्रयस्त्रिंशत्कपालं पुरोडाशं निर्वपतीति । य एवैते त्रय एकादशकपालास्त१ एवैत१ उक्ता१ भवन्ति । तस्या एता भवन्त्यँ्‌होमुचे विवेश यन्मा वि न इन्द्रेन्द्र क्षत्रमिन्द्रियाणि शतक्रतो ऽनु ते दायीति । यो भ्रातृव्यवान्स्यात्स स्पर्धमान् १० एतयेष्ट्या यजेताग्नये संवर्गाय पुरोडाशमष्टा