बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 478, कुल 774 में से
संदर्भ में पढ़ेंयस्यामावध्नाति देवाः शर्मण्या मित्रावरुणार्यमन्नित्य॑होरात्रे एवोपरम॑ति ' तृतीयायामावध्नाति देवाः सपीतयो ऽपां नपादाशुहेमन्नित्य॑होरात्रे एवोपरमत्यर्थ वै भवति यदि वर्षेत्तावत्येव होतव्यमिति ' यदि चैव वर्षति यदि नोभयेनैव ५ पिण्डैर्जुहोति स्रुचोपस्तीर्णाभिघारिता दिवा चित्तमः कृण्वन्त्या यं नर उदीरयथा मरुतः समुद्रत इत्येताभ्यां धूम- मन्वञ्चते ऽसितवर्णा हरयः सुपर्णा इति ' यदि न वर्षच्छ्वो भूते हविर्निर्वपेदग्नये धामच्छदे पुरोडाशमष्टाकपालं निर्वपे- न्मारुतꣳ सप्तकपालꣳ सौर्यमेककपालमिति ' तस्य एता १० भवन्ति त्वं त्या चिदच्युताग्ने भूरौणि तव जातवेदो दिवो नो वृष्टिं मरुतो ररीध्वं पिन्वन्त्यपो मरुतः सुदानव उद्दु त्यं चित्रमित्य॑थ पुरस्तात्स्विष्टकृतः स्रुवाहुतीरुपजुहोत्यौर्वभृगुवच्छु- चिमप्रवानवदाङ्गव इति तिस्रो ' ऽथैतां कुम्भीमद्भिः पूरयति सृजा वृष्टिं दिव आद्भिः समुद्रं पृणेति ' सा यदि दीर्यते १५ यदि भिद्यते वर्षिष्यतीत्येव वेदाय'विमभिजुहोत्या १ अविं प्रथमजा बलमसि समुद्रियमिति ' सा यदि विधूनुते यदि मेहति यदि शकृत्करोति वर्षिष्यतीत्येव वेदाय वर्षास्तस्तम्भम- भिजुहोति ॥ ३६ ॥ १ Thus M Be & Ben; वेदाय मेष्या उपरि जुहोत्य० BUD; then follows in B the beginning of kh. 40; the passage अथाविमभि- जुहोत्य०... वर्षिष्यतीत्येव was given in this MS. already after the horse oracle.