बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 491, कुल 774 में से
संदर्भ में पढ़ें[Header] Digitized by Madhuban Trust १६० बौधायनश्रौतसूत्रम् । [ २४ । ५ । ]
करोत्या॑यतनवान्भवति य एवं वेदा॑थो द्यावापृथिवी एव घृतेन युनक्ति॑ ते युक्ते उपजीवनीये भवत॑ उपजीवनीयो भवति य एवं वेदेति ब्राह्मणमथ प्रतिप्रस्थातोत्तरार्ध आहवनीयस्य मन्थिनः सꣳस्रावं जुहोत्येष ते रुद्र भागो यं निरयाचथास्तं जुषस्व विदेगौपत्यꣳ रायस्पोषꣳ सुवीर्यꣳ संवत्सरीणाꣳ ५ स्वाहेत्यथ वै भवति मनुः पुत्रेभ्यो दायं व्यभजत्स नाभानेदिष्ठं ब्रह्मचर्यं वसन्तं निरभजत्स आगच्छत्सो ऽब्रवीत्कथा मा निरभागिति॑ न त्वा निरभाचमित्यब्रवीदङ्गिरस इमे सत्र- मासते॑ ते सुवर्गं लोकं न प्रजानन्ति॑ तेभ्य इदं ब्राह्मणं ब्रूहि॑ ते सुवर्गं लोकं यन्तो य एषां पशवस्ताꣳस्ते दास्यन्तीति॑ १० तदेभ्यो ऽब्रवीदिति॑ तत्पृच्छन्ति॑ किमेभ्यस्तदुवाचेत्यपायानि सन्तनीर्द्रप्सानुमन्त्रणीया अच्छावाकीया१ स्तोत्रीयाः२ शस्त्रियाः सत्यं वदत श्रद्धा वो मा विगादित्येतदेभ्यस्तदुवाचेति३ तं पशुभिस्चरन्तं यज्ञवास्तौ रुद्र आगच्छदित्युक्तस्यैष कर्मणो ऽनुवादो॑ ऽथ द्वे प्रवृताहुती जुहोति॑ जुष्टो वाचो भूयास- १५ मृचा स्तोमꣳ समर्धयेत्युपरिष्टात्तृतीया॑ तासु४ तत्रैव वक्ष्यामो॑ ऽथ द्रप्साननुमन्त्रयते द्रप्सश्चस्कन्द यस्ते द्रप्सो यो द्रप्सो यस्ते द्रप्स इत्यथ वै भवत्यध्वर्युर्वा ऋत्विजां प्रथमो युज्यते तेन
१ Thus MU ; all the other MSS. read the singular. २ Thus M only ; all the other MSS. ॰वाकीयास्तार्तीयाः । ३ Thus M ; विगाद् i.s. of विगादु all the other MSS. ४ Thus M ; स्तोत्र्यासु the other MSS.
CC-0. Public Domain. Vipin Kumar Collection, Deoband