भारतकोश
बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

Baudhayana Shrautasutra of Taittiriya Samhita with Commentary

आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा

DevanagariHindipublished774 पृष्ठ

पृष्ठ 499, कुल 774 में से

संदर्भ में पढ़ें
पृष्ठ 499

प्रतिष्ठेतोह¹ हविर्यज्ञेषु भवति । यत्राह ब्रह्मन्स्तोश्यामः प्रशा- स्तरिति तद्ब्रह्मा प्रसौति देव सवितरेतत्त्ते प्राह तत्प्र च सुव प्र च यज बृहस्पतिर्ब्रह्मायुष्मत्या ऋचो मा गात तनूपात्साम्नः सत्या व आशिषः सन्तु सत्या आकूतय ऋतं च सत्यं च वदत सुत देवस्य सवितुः प्रसवे भूरिन्द्रवन्त सुतेति प्रातःसवने । ५ भुव इन्द्रवन्त सुतेति माध्यंदिने । सुवरिन्द्रवन्त सुतेति तृतीयसवने । सुते सुतस्य दोहं वाचयति सुतस्य सुतमस्यूर्जं मह्यꣲ सुतं दुहामा मा सुतस्य सुतं गम्यादिति । शस्ते शस्तस्य दोहं वाचयति शस्तस्य शस्तमस्यूर्जं मह्यꣲ शस्तं दुहामा मा शस्तस्य शस्तं गम्यादिति । तयोरुभयोरभ्यासं² वाचयतीन्द्रिया- १० वन्तो वनामहे धुक्षीमहि प्रजामिषꣲ सा मे सत्याशीर्देवेषु भूयाद्ब्रह्मवर्चसं मागम्यादित्य॑थ यज्ञस्य पुनरालम्भं जपति यज्ञो बभूव स आ बभूव स प्रजज्ञे स वावृधे । स देवानामधि- पतिर्बभूव सो अस्माꣲ अधिपतीन्करोतु वयꣲ स्याम पतयो रयीणामित्य॑थ वै भवति यज्ञो वा वै यज्ञपतिं दुहे यज्ञपतिर्वा १५ यज्ञं दुहे । स य स्तुतशस्त्रयोर्दोहमविद्वान्यजते तं यज्ञो दुहे । स दुग्धा पापीयान्भवति । य एनयोर्दोहं विद्वान्यजते स यज्ञं दुहे । स दुग्धा वसीयान्भवति । सुतस्य सुतमस्यूर्जं मह्यꣲ सुतं दुहामा मा सुतस्य सुतं गम्याच्छस्तस्य शस्तमस्यूर्जं मह्यꣲ शस्तं दुहामा मा शस्तस्य शस्तं गम्यादित्याहैष वै स्तुतशस्त्र- १८


१ B om. इह ; Bhav. comments upon it. २ Thus M ; ॰ध्यासं BG ; ॰ध्याभ्यासं Be U.