बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 502, कुल 774 में से
संदर्भ में पढ़ें[ १४ । १०, ११ । ] बौधायनश्रौतसूत्रम् । १७१ प्रत्यङ् तिष्ठन्प्रतिगृह्णाति तस्मात्प्राचीनꣳ रेतो धीयते प्रतीचीः प्रजा जायन्त इति ब्राह्मणमथ वै भवति यद्वै होताध्वर्युम- भ्याह्वयते वज्रमेनमभि प्रवर्त्तयति ' पराङावर्त्तत इति ' सो ऽभ्याहूतः पराङावर्त्तते ' वज्रमेव तन्निकरोतीति ब्राह्मणमुक्तं प्रतिनिर्ग्राह्याणां ग्रहणमुक्तं१ सꣳस्रावस्थापिधानमुक्तमुपाꣳ- श्वन्तर्यामयोरनुमन्त्रणमुक्तं द्विदेवत्यानां चर्या२ ' ॥ १० ॥ चतुर्थः ॥ अथातो ऽतिग्राह्याणामेव ग्रहणम् ' स यद्येको यदि वा बहव आग्रयणमेवैनान्गृहीत्वा गृह्णाति ' माहेन्द्रस्यैव होममनु हूयन्ते३ ' स आग्नेयं गृह्णात्यग्न आयूंषि पवस इत्यनुद्रुत्योप- यामगृहीतो ऽस्यग्नये त्वा तेजस्वते जुष्टं गृह्णामीति ' परिमृज्य सादयत्येष ते योनिरग्नये त्वा तेजस्वत इत्यथैनꣳ होष्यन्नवेक्षते ऽग्ने तेजस्विंस्तेजस्वी त्वं देवेषु भूयास्तेजस्वन्तं मामायुष्मन्तं वर्चस्वन्तं मनुष्येषु कुर्विति ' जुहोति दीक्षायै च त्वा तपसश्च तेजसे जुहोमीति ' हुत्वा वाचयति तेजोविदमसि तेजो मा मा हासीन्माहं तेजो हासिषं मा मां तेजो हासीदिति ' भक्षयति मयि मेधां मयि प्रजां मय्यग्निस्तेजो दधात्वित्यैन्द्रं गृह्णात्यु- त्तिष्ठन्नोजसा सहेत्यनुद्रुत्योपयामगृहीतो ऽसीन्द्राय त्वौजस्वते जुष्टं गृह्णामीति ' परिमृज्य सादयत्येष ते योनिरिन्द्राय
१ These two words are left out in all the MSS. exc. M. २ चर्य्याः Be. ३ Thus ( and cp. Āp. XIII. 8. 7 ) MU ; हूयते Be : क्रियंते BG.