भारतकोश
बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

Baudhayana Shrautasutra of Taittiriya Samhita with Commentary

आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा

DevanagariHindipublished774 पृष्ठ

पृष्ठ 514, कुल 774 में से

संदर्भ में पढ़ें
पृष्ठ 514

वै भवति यो राष्ट्रादपभूतः स्यात्तस्मै होतव्या॑ यावन्तो ऽस्य रथाः स्युस्तान्ब्रूयाद्युङ्ग्ध्वमिति॑ राष्ट्रमेवास्मै युनक्तीति ब्राह्मण- मथ वै भवत्याङ्गतयो वा एतस्याकॢप्ता यस्य राष्ट्रं न कल्पते॑ खरथस्य दक्षिणं चक्रं प्रवृह्य नाडीमभिजुहुयादिति 'स'१ खरथ- स्यैव दक्षिणं चक्रं प्रवृच्योपर्यंश्यौ रथनाडीं प्रगृह्य२ निग्रायाङ् ग्राम्यापरिधौ द्विः स्वाहाकारं राष्ट्रभृतो जुहोत्याङ्गतौरेवास्य कल्पयति॑ ता अस्य कल्पमाना राष्ट्रमनुकल्पत इति ब्राह्मणम्॑ ॥ १७ ॥ अथ वै भवति संग्रामे संयत्ते होतव्या इति॑ संग्रामे संयत्ते होष्यन्नुपकल्पयते मान्बुकमिध्ममित्य॑थ प्रत्यगिध्ममग्निमुप- समाधाय मान्बुकमिध्ममभ्यज्य स्वाहाकारेणाभ्याधाय निग्रायाङ् ग्राम्यापरिधौ द्विः स्वाहाकारं राष्ट्रभृतो जुहोत्य॑ङ्गारा एव प्रतिवेष्टमाना अमित्राणामस्य सेनां प्रतिवेष्टयन्तीति ब्राह्मण- मथ वै भवति य उन्माद्येत्तस्मै होतव्या इत्यु॑न्मत्ताय होष्यन्नुप- कल्पयते नैयग्रोधमौदुम्बरमाश्वत्थं शाखमिध्ममित्य॑थ वृथाग्नि- मुपसमाधायैतमिध्ममभ्यज्य स्वाहाकारेणाभ्याधाय निग्रायाङ् ग्राम्यापरिधौ द्विः स्वाहाकारं राष्ट्रभृतो ३जुहोत्ये॑ते वै गन्ध- र्वाप्सरसां गृहाः॑ स्व एवैनानायतने शमयतीति ब्राह्मणमथ वै भवत्यभिचरता प्रतिलोमं होतव्या इत्य॑भिचरन्होष्यन्त्कृत४ १ only given by M. २ प्रसज्य M Be ; प्रगृह्य the other MSS. ३ ... ३ (p. 184, 2) left out in M. ४ probably read: इति सोऽभिचरन्हो० ।